सूत उवाच व्यासप्रसादादाग्नेयं पुराणं श्रुतमादरात् ।। ३८३.
आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः । भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं ।। ३८३.
तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् । अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं ।। ३८३.
ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् । नास्मात्परतरः सारो नास्मात्परतरः सुहृत् ।। ३८३.
नास्मात्परतरो ग्रन्थो नास्मात्परतरा गतिः । नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः ।। ३८३.
नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः । नास्मात्परो ह्यागमोऽस्ति नास्माद्विद्या पराऽस्ति हि ।। ३८३.
नास्मात्परः स्यात्सिद्धान्तो नास्मात्परममङ्गलम् । नास्मात्परोऽस्ति वेदान्तः पुराणं परमन्त्विदं ।। ३८३.
नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् । आग्नेये हि पुराणेऽस्मिन् सर्वविद्याः प्रदर्शिताः ।। ३८३.
सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह । हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः ।। ३८३.
आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया । पवित्रारोहणादीनि प्रतिमालक्षणादिकं ।। ३८३.
प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिभुक्तिदाः । शैवागमस्तदर्थश्च शाक्तेयः सौर एव च ।। ३८३.
मण्डलानि च बास्तुश्च मन्त्राणि विविधानि च । प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं ।। ३८३.
गीतो भुवनकोषश्च द्वीपवर्षादिनिम्नगाः । गयागङ्गाप्रयागादि-तीर्थमाहात्म्यमीरितं ।। ३८३.
ज्योतिश्चक्रं ज्योतिषादि गीतो युद्धजयार्णवः । मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च ।। ३८३.
अशौचं द्रव्यशुद्धिश्च प्रायश्चित्तं प्रदर्शितं । राजधर्म्मा दानधर्मा व्रतानि विविधानि च ।। ३८३.
व्यवहाराः शान्तयश्च ऋग्वेदादिविधानकं । सूर्यवंशः सोमवंशो धनुर्वेदश्च वैद्यकं ।। ३८३.
गान्धर्व्ववेदोऽर्थशास्त्रं मीमांसा न्यायविस्तरः । पुराणसंख्यामाहात्म्यं छन्दो व्याकरणं स्मृतं ।। ३८३.
अहङ्कारो निघण्टुश्च शिक्षा कल्प इहोदितः । स्मृतः नैमित्तिकः प्राकृतिको लय आत्यन्तिकः ।। ३८३.
वेदान्तं ब्रह्मविज्ञानं योगी ह्यष्टाङ्ग ईरितः । स्तोत्रं पुराणमाहात्म्यं विद्या ह्यष्टादश स्मृताः ।। ३८३.
ऋग्वेदाद्याः परा ह्यत्र पराविद्याक्षरं परं । सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं ।। ३८३.
इदं पञ्चदशसाहस्रं शतकोटिप्रविस्तरं । देवलोके दैवतैश्च पुरणं पठ्यते सदा ।। ३८३.
लोकानां हितकामेन संक्षिप्योद्गीतमग्निना । सर्वं ब्रह्मेति जानीध्वं मुनयः शोनकादयः ।। ३८३.
श्रृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि । लिखेल्लेखापयेद्वापि पूजयेत्कीर्त्तयेदपि ।। ३८३.
पुराणपाठकञ्चैव पूजयेत् प्रयतो नृपः । गोभूहिरण्यदानाद्यैर्वस्त्रालङ्कारतर्पणैः ।। ३८३.
तं संपूज्य लभेच्चैव पुराणश्रवणात् फलं । पुराणान्ते च वै कुर्य्यादवश्यं द्विजभोजनं ।। ३८३.
निर्म्मलः प्राप्तसर्व्वार्थः सकुलः स्वर्गमाप्नुयात् । शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं ।। ३८३.
पट्टिकाबन्धवस्त्रादि दद्याद् यः स्वर्गमाप्नुयात् । यो दद्याद्ब्रह्म्लोकी स्यात् पुस्तकं यस्य वै गृहे ।। ३८३.
तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् । यूयं स्मरत चाग्नेयं पुराणं रूपमैश्वरं ३८३.