यः पठेच्छृणुयाद्व्यास लिखेद्वा लेखयेदपि । श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि ।। ३८३.
सर्व्वपापविनिर्मुक्तः प्राप्तकामो दिवं व्रजेत् । लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं ।। ३८३.
स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् । एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते ।। ३८३.
तस्माद्व्यास सदा श्राव्यं शिष्यभ्यः सर्वदर्शनं । शुकाद्यैर्मुनिभिः सार्द्धं श्रोतुकामैः पुराणकं ।। ३८३.
आग्नेयं पठितं ध्यातं शुभं स्याद् भुक्तिमुक्तिदं । अग्नये तु नमस्तस्मै येन गीतं पुराणकं ।। ३८३.
व्यास उवाच वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं । पराविद्याऽपराविद्यास्वरूपं परमं पदम् ।। ३८३.
आग्नयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः । ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः ।। ३८३.
विद्यार्थिनस्तथा विद्यां राज्यं राज्यार्थिनो गताः । अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः ।। ३८३.
सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः । लिखन्तो लेखयन्तश्च निष्पापाश्च श्रियं गताः ।। ३८३.
शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं । रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः ३८३.
सूत उवाच व्यासप्रसादादाग्नेयं पुराणं श्रुतमादरात् ।। ३८३.
आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः । भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं ।। ३८३.
तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् । अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं ।। ३८३.
ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् । नास्मात्परतरः सारो नास्मात्परतरः सुहृत् ।। ३८३.
नास्मात्परतरो ग्रन्थो नास्मात्परतरा गतिः । नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः ।। ३८३.
नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः । नास्मात्परो ह्यागमोऽस्ति नास्माद्विद्या पराऽस्ति हि ।। ३८३.
नास्मात्परः स्यात्सिद्धान्तो नास्मात्परममङ्गलम् । नास्मात्परोऽस्ति वेदान्तः पुराणं परमन्त्विदं ।। ३८३.
नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् । आग्नेये हि पुराणेऽस्मिन् सर्वविद्याः प्रदर्शिताः ।। ३८३.
सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह । हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः ।। ३८३.
आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया । पवित्रारोहणादीनि प्रतिमालक्षणादिकं ।। ३८३.
प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिभुक्तिदाः । शैवागमस्तदर्थश्च शाक्तेयः सौर एव च ।। ३८३.
मण्डलानि च बास्तुश्च मन्त्राणि विविधानि च । प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं ।। ३८३.
गीतो भुवनकोषश्च द्वीपवर्षादिनिम्नगाः । गयागङ्गाप्रयागादि-तीर्थमाहात्म्यमीरितं ।। ३८३.
ज्योतिश्चक्रं ज्योतिषादि गीतो युद्धजयार्णवः । मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च ।। ३८३.
अशौचं द्रव्यशुद्धिश्च प्रायश्चित्तं प्रदर्शितं । राजधर्म्मा दानधर्मा व्रतानि विविधानि च ।। ३८३.
व्यवहाराः शान्तयश्च ऋग्वेदादिविधानकं । सूर्यवंशः सोमवंशो धनुर्वेदश्च वैद्यकं ।। ३८३.
गान्धर्व्ववेदोऽर्थशास्त्रं मीमांसा न्यायविस्तरः । पुराणसंख्यामाहात्म्यं छन्दो व्याकरणं स्मृतं ।। ३८३.
अहङ्कारो निघण्टुश्च शिक्षा कल्प इहोदितः । स्मृतः नैमित्तिकः प्राकृतिको लय आत्यन्तिकः ।। ३८३.
वेदान्तं ब्रह्मविज्ञानं योगी ह्यष्टाङ्ग ईरितः । स्तोत्रं पुराणमाहात्म्यं विद्या ह्यष्टादश स्मृताः ।। ३८३.
ऋग्वेदाद्याः परा ह्यत्र पराविद्याक्षरं परं । सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं ।। ३८३.