येषां गृहेषु लिखितमाग्नेयं हि पुराणकं । पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः ।। ३८३.
किं तीर्यैर्गोप्रदानैर्वा किं यज्ञैः किमुपोषितैः । आग्नेयं ये हि श्रृण्वन्ति अहन्यहनि मानवाः ।। ३८३.
यो ददाति तिलप्रस्थं सुवर्णस्य च माषकं । श्रृणेति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात् ।। ३८३.
अध्यायपठनञ्चास्य गोप्रदानाद् विशिष्यते । अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति ।। ३८३.
कपिलानां शते दत्ते यद् भवेज्ज्येष्ठपुष्करे । तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात् ।। ३८३.
प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं । आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि ।। ३८३.
पठन्नाग्नेयकं नित्यं श्रृण्वन् वापि पुराणकं । भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते ।। ३८३.
नोपसर्गा न चानर्था न चौरारिभयं गृहे । तस्मिन् स्याद् यत्र चाग्नेयपुराणस्य हि पुस्तकं ।। ३८३.
न गर्भहारिणी भीतिर्न च बालग्रहा गृहे । यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं ।। ३८३.
श्रृण्वन् विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः । ऋद्धिं प्राप्नोति वैश्यश्च शूद्रश्चारोग्यमृच्छति ।। ३८३.
यः पठेत् श्रृणुयान्नित्यं समदृग्विष्णुमानसः । ब्रह्माग्नेयं पुराणं सत्तत्र नश्यन्त्युपद्रवाः ।। ३८३.
दिव्यान्तरीक्षभौमाद्या दुःस्वप्नाद्यभिचारकाः । यच्चान्यद्दुरितं किञ्चित्तत्सर्व्वं हन्ति केशवः ।। ३८३.
पठतः श्रृण्वतः पुंसः पुस्तकं यजतो महत् । आग्नेयं श्रीपुराणं हि हेमन्ते यः श्रृणोति वै ।। ३८३.
प्रपूज्य गन्धपुष्पाद्यैरग्निष्टोमफलं लभेत् । शिशिरे पुण्डरीकस्य वसन्ते चाश्वमेधजम् ।। ३८३.
ग्रीष्मे तु वाजपेयस्य राजसूयस्य वर्षति । गोसहस्रस्य शरदि फलं तत्पठतो ह्यृतौ ।। ३८३.
आग्नेयं हि पुराणं यो भक्ताग्रे पठते हरेः । सोऽर्च्चयेच्च वसिष्ठेह ज्ञानयज्ञेन केशवम् ।। ३८३.
यस्याग्नेयपुराणस्य पुस्तकं तस्य वै जयः । लिखितं पूजितं गेहे भुक्तिर्मुक्तिः करेऽस्ति हि ।। ३८३.
इति कालाग्निरूपेण गीतं मे हरिणा पुरा । आग्नेयं हि पुराणं वै ब्रह्मविद्याद्वयास्पदम् ३८३.
वसिष्ठ उवाच व्यासाग्नेयपुराणं ते रूपं विद्याद्वयात्मकं । कथितं ब्रह्मणो विष्णोरग्निना कथितं यथा ।। ३८३.
सार्द्धं देवैश्च भुनिभिर्मह्यं सर्व्वार्थदर्शकं । पुराणमग्निना गीतमाग्नेयं ब्रह्मसमिमतं ।। ३८३.
यः पठेच्छृणुयाद्व्यास लिखेद्वा लेखयेदपि । श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि ।। ३८३.
सर्व्वपापविनिर्मुक्तः प्राप्तकामो दिवं व्रजेत् । लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं ।। ३८३.
स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् । एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते ।। ३८३.
तस्माद्व्यास सदा श्राव्यं शिष्यभ्यः सर्वदर्शनं । शुकाद्यैर्मुनिभिः सार्द्धं श्रोतुकामैः पुराणकं ।। ३८३.
आग्नेयं पठितं ध्यातं शुभं स्याद् भुक्तिमुक्तिदं । अग्नये तु नमस्तस्मै येन गीतं पुराणकं ।। ३८३.
व्यास उवाच वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं । पराविद्याऽपराविद्यास्वरूपं परमं पदम् ।। ३८३.
आग्नयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः । ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः ।। ३८३.
विद्यार्थिनस्तथा विद्यां राज्यं राज्यार्थिनो गताः । अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः ।। ३८३.
सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः । लिखन्तो लेखयन्तश्च निष्पापाश्च श्रियं गताः ।। ३८३.
शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं । रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः ३८३.