अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रही । यमाश्च नियमाः पञ्च शौचं सन्तोषसत्तपः ।। ३८२.
स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकं । प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ।। ३८२.
शुभे ह्येकत्र विषये चेतसो यत् प्रधारणं । निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ।। ३८२.
पौनःपुन्येन तत्रैव विषयेष्वेव धारणा । ध्यानं स्मृतं समाधिस्तु अहं ब्रह्मात्मसंस्थितिः ।। ३८२.
घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् । मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ।। ३८२.
आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा । जीवो ह्यज्ञानतत्कार्य्यमुक्तः स्यादजरामरः ।। ३८२.
अग्निरुवाच वशिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा । आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ।। ३८२.
अग्निरुवाच आग्नेयं ब्रह्मरूपन्ते पुराणं कथितं मया । सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत् ।। ३८३.
ऋग्यजुःसामाश्चर्वाख्या विद्या विष्णुर्जगज्जनिः । छन्दः शिक्षा व्याकरणं निधण्टुज्योतिराख्यकाः ।। ३८३.
निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः । आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः ।। ३८३.
विद्या सैवार्थसास्त्राख्या वेदान्ताऽन्या हरिर्महान् । इत्येषा चापरा विद्या परविद्याऽक्षरं ।। ३८३.
यस्य भावोऽखिलं विष्णुस्तस्य नो बाधते कलिः । अनिष्ट्वा तु महायज्ञानकृत्वापि पितृस्वधां ।। ३८३.
कृष्णमभ्यर्च्चयन्भक्त्या नैनसो भाजनं भवेत् । सर्वकारणमत्यन्तं विष्णुं ध्यायन्न सीदति ।। ३८३.
अन्यतन्त्रादिदोषोत्थो विषयाकृष्टमानसः । कृत्वापि पापं गोविन्दं ध्यायन्पापैः प्रमुच्यते ।। ३८३.
तद्ध्यानं यत्र गोविन्दः सा कथा यत्र केशवः । तत् कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ।। ३८३.
न तत् पिता पु पुत्राय न शिष्याय गुरुर्द्विज । परमार्थं परं ब्रूयाद्यदेतत्ते मयोदितं ।। ३८३.
संसारे भ्रमता लभ्यं पुत्रदारधनं वसु । सुहृदश्च तथैवान्ये नोपदेशो द्विजेदृशः ।। ३८३.
किं पुत्रदारैमित्रैर्वा किं मित्रक्षेत्रवान्धवैः । उपदेशः परो वन्धुरीदृशो यो विमुक्तये ।। ३८३.
द्विविधो भूतमार्गोयं दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ।। ३८३.
एतत् पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनं । सुखप्रीतिकरं नॄणां मोक्षकृद् यत्तवेरितं ।। ३८३.
येषां गृहेषु लिखितमाग्नेयं हि पुराणकं । पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः ।। ३८३.
किं तीर्यैर्गोप्रदानैर्वा किं यज्ञैः किमुपोषितैः । आग्नेयं ये हि श्रृण्वन्ति अहन्यहनि मानवाः ।। ३८३.
यो ददाति तिलप्रस्थं सुवर्णस्य च माषकं । श्रृणेति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात् ।। ३८३.
अध्यायपठनञ्चास्य गोप्रदानाद् विशिष्यते । अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति ।। ३८३.
कपिलानां शते दत्ते यद् भवेज्ज्येष्ठपुष्करे । तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात् ।। ३८३.
प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं । आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि ।। ३८३.
पठन्नाग्नेयकं नित्यं श्रृण्वन् वापि पुराणकं । भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते ।। ३८३.
नोपसर्गा न चानर्था न चौरारिभयं गृहे । तस्मिन् स्याद् यत्र चाग्नेयपुराणस्य हि पुस्तकं ।। ३८३.
न गर्भहारिणी भीतिर्न च बालग्रहा गृहे । यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं ।। ३८३.
श्रृण्वन् विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः । ऋद्धिं प्राप्नोति वैश्यश्च शूद्रश्चारोग्यमृच्छति ।। ३८३.