* कामत्यागात्तु विज्ञानं सुखं ब्रह्म परं पदं । कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ।। ३८२.
प्रवृत्तञ्च निवृत्तञ्च कार्य्यं कर्मपरोऽव्रवीत् । श्रेयसां श्रेय एतद्धि नैष्कर्म्यं ब्रह्म तद्धरिः ।। ३८२.
पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः । ब्रह्माणा विष्णुसंज्ञेन परमेणाव्ययेन च । ३८२.
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् । तपसा लभ्यते सर्वं मनसा यद्यदिच्छति ।। ३८२.
नास्ति विष्णुसमन्ध्येयं तपो नानशनात्परं । नास्त्यारोग्यसमं धन्यं नास्ति गङ्गासमा सरित् ।। ३८२.
न सोऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुं । अधश्चोद्र्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे ।। ३८२.
इत्येवं संस्मरन् प्राणान् यस्त्यजेत्स हरिर्भवेत् । यत्तद् ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ।। ३८२.१६ अग्राह्यकमनिर्देश्यं सुप्रतिष्ठञ्च यत्परं । परापरस्वरूपेण विष्णुः सर्व्वहृदि स्थितः ।। ३८२.
यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परं । केचिद्विष्णुं हरं केचित् केचिद् ब्रह्माणमीश्वरं ।। ३८२.
इन्द्रादिनामभिः केचित् सूर्य्यं सोमञ्च कालकम् । ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुं वदन्ति च ।। ३८२.
स विष्णुः परमं ब्रह्म यतो नावर्त्तते पुनः । सुवर्णादिमहाकदानपुण्यतीर्थावगाहनैः ।। ३८२.
ध्यानैर्व्रतैः पूजया च घर्म्मश्रुत्या तदाप्नुयात् । आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।। ३८२.
बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांश्चेषुगोचरान् ।। ३८२.
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।। ३८२.
न सत्पदमवाप्नोति संसारञ्चाधिगच्छति । यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।। ३८२.
स तत्पदमवाप्नोति यस्माद्भूयो न जायते । विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।। ३८२.
सोऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।। ३८२.
मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः । महतः परमवव्यक्तमव्यक्तात्पुरुषः परः ।। ३८२.
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । एषु सर्वेषु भूतेषु गूढ़ात्मा न प्रकाशते ।। ३८२.
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ।। ३८२.
ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि । ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् ।। ३८२.
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रही । यमाश्च नियमाः पञ्च शौचं सन्तोषसत्तपः ।। ३८२.
स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकं । प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ।। ३८२.
शुभे ह्येकत्र विषये चेतसो यत् प्रधारणं । निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ।। ३८२.
पौनःपुन्येन तत्रैव विषयेष्वेव धारणा । ध्यानं स्मृतं समाधिस्तु अहं ब्रह्मात्मसंस्थितिः ।। ३८२.
घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् । मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ।। ३८२.
आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा । जीवो ह्यज्ञानतत्कार्य्यमुक्तः स्यादजरामरः ।। ३८२.
अग्निरुवाच वशिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा । आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ।। ३८२.
अग्निरुवाच आग्नेयं ब्रह्मरूपन्ते पुराणं कथितं मया । सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत् ।। ३८३.
ऋग्यजुःसामाश्चर्वाख्या विद्या विष्णुर्जगज्जनिः । छन्दः शिक्षा व्याकरणं निधण्टुज्योतिराख्यकाः ।। ३८३.
निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः । आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः ।। ३८३.