देशादौ चैव दातव्यमुपकाराय राजसं । अदेशादाववज्ञातं तामसं दानमीरितं ।। ३८१.
ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । यज्ञदानादिकं कर्म्म भुक्तिमुक्तिप्रदं नृणं ।। ३८१.
अनिष्टमिष्टं मिशञ्च त्रिविंधं कर्मणः फलं । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्कचित् ।। ३८१.
तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् । राजसः सात्त्विकोऽकामात् पञ्चैते कर्महेतवः ।। ३८१.
एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञान्तु राजसं । अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकं ।। ३८१.
कामाय राजसं कर्म मोहात् कर्म तु तामसं । सिद्ध्यसिद्ध्योः समः कर्त्ता सात्त्विको राजसोऽत्यपि ।। ३८१.
शठोऽलसस्तामसः स्यात् कार्य्यादिधीश्च सात्त्विकी । कार्य्यार्थं सा राजसी स्याद्विपरीता तु तामसी ।। ३८१.
मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी । तामसी तु प्रशोकादौ सुखं सत्त्वात्तदन्तगं ।। ३८१.
सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसं । अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततं ।। ३८१.
स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।। ३८१.
ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः । सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवं ।। ३८१.
अग्निरुवाच यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे । पठतां श्रृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनां सतां ।। ३८२.
यम उवाच आसनं शयनं यानपरिधानगृहादिकम् । वाञ्छत्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ।। ३८२.
भोगेष्वशक्तिः सततं तथैवात्मावलोकनं । श्रेयः परं मनुष्याणां कपिलोद्गीतमेव हि ।। ३८२.
सर्व्वत्र समदर्शित्वं निर्म्ममत्वमसङ्गता । श्रेयः परं मनुष्याणां गीतं पञ्चशिखेन हि ।। ३८२.
आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनं । श्रेयः परं मनुष्याणां गङ्गाविष्णुप्रगीतकं ।। ३८२.
आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया । श्रेयः परं मनुष्याणां जनकोद्गीतमेव च ।। ३८२.
अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः । तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतं ।। ३८२.
* कर्त्तव्यमिति यत्कर्म्म ऋग्यजुःसामसंज्ञितं । कुरुते श्रेयसे सङ्गाज्जैगीषव्येण गीयते ।। ३८२.
हानिः सर्व्वविधित्सानामात्मनः सुखहैतुकी । श्रेयः परं मनुष्याणां देवलोद्गीतमीरितं ।। ३८२.
* कामत्यागात्तु विज्ञानं सुखं ब्रह्म परं पदं । कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ।। ३८२.
प्रवृत्तञ्च निवृत्तञ्च कार्य्यं कर्मपरोऽव्रवीत् । श्रेयसां श्रेय एतद्धि नैष्कर्म्यं ब्रह्म तद्धरिः ।। ३८२.
पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः । ब्रह्माणा विष्णुसंज्ञेन परमेणाव्ययेन च । ३८२.
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् । तपसा लभ्यते सर्वं मनसा यद्यदिच्छति ।। ३८२.
नास्ति विष्णुसमन्ध्येयं तपो नानशनात्परं । नास्त्यारोग्यसमं धन्यं नास्ति गङ्गासमा सरित् ।। ३८२.
न सोऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुं । अधश्चोद्र्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे ।। ३८२.
इत्येवं संस्मरन् प्राणान् यस्त्यजेत्स हरिर्भवेत् । यत्तद् ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ।। ३८२.१६ अग्राह्यकमनिर्देश्यं सुप्रतिष्ठञ्च यत्परं । परापरस्वरूपेण विष्णुः सर्व्वहृदि स्थितः ।। ३८२.
यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परं । केचिद्विष्णुं हरं केचित् केचिद् ब्रह्माणमीश्वरं ।। ३८२.
इन्द्रादिनामभिः केचित् सूर्य्यं सोमञ्च कालकम् । ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुं वदन्ति च ।। ३८२.
स विष्णुः परमं ब्रह्म यतो नावर्त्तते पुनः । सुवर्णादिमहाकदानपुण्यतीर्थावगाहनैः ।। ३८२.