आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु ।। ३८१.
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ।। ३८१.
अध्यात्मज्ञाननिष्ठत्वन्तत्त्वज्ञानानुदर्शनं । ओतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ।। ३८१.
ज्ञेयं यत्तत् प्रवक्ष्यामि यं ज्ञात्वाऽमृतमश्नुते । अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते ।। ३८१.
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। ३८१.
सर्वेन्द्रियगुणाभासं सर्वेन्दियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ।। ३८१.
अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च ।। ३८१.
ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य घिष्ठितं ।। ३८१.
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ।। ३८१.
अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते । तेपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः ।। ३८१.
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतो ज्ञानमेव च ।। ३८१.
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते । मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः ।। ३८१.
ऊर्ध्वमूलमधः शाखमश्चत्थं प्राहुरव्ययं । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।। ३८१.
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणां ।। ३८१.
न शौचं नापि वाचारो ह्यासुरीसम्पदोद्भवः । नरकत्वात् क्रोधकोभकामस्तस्मात्त्रयं त्यजेत् ।। ३८१.
दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसं । अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकं ।। ३८१.
यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः । यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः ।। ३८१.
श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते । देवादिपूजाऽहिंसादि वाङ्मयं तप उच्यते ।। ३८१.
अनुद्धेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः । मानसं चित्तसंशुद्धेर्मौनमात्मविनिग्रहः ।। ३८१.
सात्त्विकञ्च तपोऽकामं फ्लाद्यर्थन्तु राजसं । तामसं परपीड़ायै सात्त्विकं दानमुच्यते ।। ३८१.
देशादौ चैव दातव्यमुपकाराय राजसं । अदेशादाववज्ञातं तामसं दानमीरितं ।। ३८१.
ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । यज्ञदानादिकं कर्म्म भुक्तिमुक्तिप्रदं नृणं ।। ३८१.
अनिष्टमिष्टं मिशञ्च त्रिविंधं कर्मणः फलं । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्कचित् ।। ३८१.
तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् । राजसः सात्त्विकोऽकामात् पञ्चैते कर्महेतवः ।। ३८१.
एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञान्तु राजसं । अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकं ।। ३८१.
कामाय राजसं कर्म मोहात् कर्म तु तामसं । सिद्ध्यसिद्ध्योः समः कर्त्ता सात्त्विको राजसोऽत्यपि ।। ३८१.
शठोऽलसस्तामसः स्यात् कार्य्यादिधीश्च सात्त्विकी । कार्य्यार्थं सा राजसी स्याद्विपरीता तु तामसी ।। ३८१.
मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी । तामसी तु प्रशोकादौ सुखं सत्त्वात्तदन्तगं ।। ३८१.
सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसं । अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततं ।। ३८१.
स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।। ३८१.