गजो योऽयमधो ब्रह्मन्नुपर्य्येष स भूपतिः । ऋतुराह गजः कोऽत्र राजा चाह निदाघकः ।। ३८०.
ऋतुर्निदाघ आरुढ़ो दृष्टान्तं पश्य वाहनं । उपर्य्यहं यथा राज त्वमधः कुञ्जरो यथा ।। ३८०.
ऋतुः७ प्राह निदाघन्तं कतमस्त्वामहं वदे । उक्तो निदाघस्तन्नत्वा प्राह मे त्वं गुरुर्घ्रुवम् ।। ३८०.
नात्यस्माद्द्वैतसंस्कारसंस्कृतं मानसं तथा । ऋतुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः । परमार्थं सारभूतमद्वैतं दर्शितं मया ।। ३८०.
ब्राह्मण उवाच निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् । सर्वभूतान्यभेदेन ददृशे स तदात्मनि ।। ३८०.
अवाप मुक्ति ज्ञानात्स तथा त्वं मुक्तिमाप्स्यसि । एकः समस्तं त्वञ्चाहं विष्णुः सर्वगतो यतः ।। ३८०.
पीतनीलादिभेदेन यथैकं दृश्यते तमः । भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक् पृथक् ।। ३८०.
संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय ।। ३८०.
अग्निरुवाच गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमं । कृष्णोऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदं ।। ३८१.
श्रीभगवानुवाच गतासुरगतासुर्वा न शोच्यो देहवानजः । आत्माऽजरोऽमरोऽभेद्यस्तस्माच्छोकादिकं त्यजेत् ।। ३८१.
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च ।। ३८१.
सम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति । दुःसङ्गहानिः सत्सङ्गान्मोक्षकामी च कामनुत् ।। ३८१.
कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते । या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।। ३८१.
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ।। ३८१.
नैव तस्य कृते नार्थो नाकृते नेह कश्चन । तत्त्ववित्तु महावाहो गुणकर्मविभागयोः ।। ३८१.
गुणा गुणेषु वर्त्तन्ते इति मत्वा न सज्जते । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति ।। ३८१.
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन । ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः ।। ३८१.
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा । सर्वभूतेषु चात्मानां सर्वभूतानि चात्मनि ।। ३८१.
न हि कल्याणकृतं कश्चिद्दुर्गतिं तात गच्छति । देवी ह्येषा गुणमयी मम माया दुरत्यया ।। ३८१.
मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते । आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।। ३८१.
चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः । अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।। ३८१.
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतं ।। ३८१.
अधियज्ञोहमेवात्र देहे देहभृतां वर । अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः ।। ३८१.
यं यं भावं स्मारन्नन्ते त्यजेद्देहन्तमाप्नुयात् । प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् ।। ३८१.
ओमित्येकाक्षरं ब्रह्म वदन् देहं त्यजन्तथा । ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः ।। ३८१.
श्रीमन्तश्चोर्जिताः सर्वे ममांशाः प्राणिनः स्मृताः । अहमेको विश्वरुप इति ज्ञात्वा विमुच्यते ।। ३८१.
क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकीर्त्तिः । क्षेत्रक्षएत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ।। ३८१.
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ।। ३८१.
अमानित्वमदम्भित्वमहिसा क्षान्तिरार्जवं । आचार्योपासनं शौचं स्थौर्य्यमात्मविनिग्रहः ।। ३८१.
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं ।। ३८१.