वृक्षारूढ़ो महाराजो नायं वदति चेतनः । न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं ।। ३८०.
शिविकादारुसङ्घातो रचनास्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ट तद्भेदे शिविका त्वया ।। ३८०.
पुमान् स्त्री गौरयं वाजी कुञ्जरो विहगस्तरुः । देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ।। ३८०.
जिह्वा व्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप । एते नाहं यतः सर्व्वेवाङ्निपादनहेतवः ।। ३८०.
किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं । तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते ।। ३८०.
पिण्डः पृथग् यतः पुंसः शिरःपाय्वादिलक्षणः । ततोऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहं ।। ३८०.
यदन्योऽस्ति परः कोपि मत्तः पार्थिवसत्तम । तदेषोहमयं चान्यो वक्तुमेवमपीष्यते ।। ३८०.
परमार्थभेदो न नगो न पशुर्नच पादपः । शरीराश्च विभेदाश्च य एते कर्मयोनयः ।। ३८०.
यस्तु राजेत् यल्लोके यच्च राजभटात्मकम् । तच्चान्यच्च नृपेत्थन्तु न सत् सम्यगनामयं ।। ३८०.
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः । पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं ।। ३८०.
त्वं किमेतच्छिरः किन्नु शिरस्तव तथोदरं । किमु पादादिकं त्वं वै तवैतत् किं महीपते ।। ३८०.
समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः । कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ३८०.
श्रेयोऽर्थमुद्यतः प्रष्ट्रं कपिलर्षिमहं द्विज । तस्याशः कपिलर्षेस्त्वं मत् कृते ज्ञानदो भुवि ३८०.
ब्राह्मण उवाच भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि । श्रेयांस्यपरमार्थानि अशेषाण्येव भूपते ।। ३८०.
देवताराधनं कृत्वा धनसम्पत्तिमिच्छति । पुत्रानिच्छति राज्यञ्च श्रेयस्तस्यैव किं नृपः ।। ३८०.
विवेकिनस्तु संयोगः श्रेयो यः परमात्मनः । यज्ञादिका क्रिया न स्यात् नास्ति द्रव्योपपत्तिता ।। ३८०.
परमार्थात्मनोर्योगः परमार्थ इतीष्यते । एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।। ३८०.
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोऽव्ययः । परं ज्ञानमयोऽसङ्गी गुणजात्यादिभिर्विभुः ।। ३८०.
ऋतुर्ब्रह्मसुतो ज्ञानी तच्छिष्योऽभूत् पुलत्स्यजः ।। ३८०.
निदाघः प्राप्तविद्योऽस्मान्नगरे वै पुरे स्थितः । देविकायास्तटे तञ्च तर्कयामास वै ऋतुः ।। ३८०.
दिव्ये वर्षसहस्रेऽगान्निदाघमवलोकितुं । निदाघो वैश्वदेवान्ते भुक्त्वान्नं शिष्यमब्रवीत् ३८०.
ऋतुरुवाच । क्षुदस्ति यस्य भुक्तेऽन्ने तुष्टिर्ब्राह्मण जायते । न मे क्षुदभवत्तृप्तिं कस्मात्त्वं परिपृच्छसि ।। ३८०.
क्षुत्तृष्णे देहधर्म्माख्ये न ममैते यतो द्विज । पृष्टोहं यत्त्वाया ब्रूयां३ तृप्तिरस्त्येव मे सदा ।। ३८०.
सोऽहं गान्ता५ न चागन्ता नैकदेशनिकेतनः । त्वं चान्यो न भवेन्नापि नान्यस्त्वक्तोऽस्मि वा प्यहं ।। ३८०.
मृण्मयं हि गृहं यद्वन्मृदालिप्तं स्थिरीभबेत् । पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ।। ३८०.
ऋतुरस्मि तवाचार्य्यः प्रज्ञादानाय ते द्विज । इहागतोऽहं यास्यामि परमार्थस्तवोदितः ।। ३८०.
एकमेवमिदं विद्धि न भेदः सकलं जगत् । वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ।। ३८०.
ऋतुर्वर्षसहस्रान्ते पुनस्तन्नगरं ययौ । निदाघं नगरप्रान्ते एकान्ते स्थितमव्रवीत् ३८०.
निदाघ उवाच भो विप्र जनसंवादो महानेष नरेश्वर । प्रविवीक्ष्य पुरं रम्यं तेनात्र स्थीयते मया ।। ३८०.
ऋतुरुवाच नराधिपोऽत्र कतमः कतमश्चेतरो जनः । कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो द्विजोत्तम ।। ३८०.