ब्राह्मण उवाच नाहं पीवान्न वैषोढ़ा शिविका भवतो मया । न श्रान्तोऽस्मि न वायासो वोढव्योऽसि महीपते ।। ३८०.
भूमौ पादयुगन्तस्थौ जङ्घे पादद्वये स्थिते । उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ।। ३८०.
वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धस्थितेयं शिविका मम भावोऽत्र किं कृतः ।। ३८०.
शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं । तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ।। ३८०.
अहं त्वञ्च तथान्यं च भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो गुणवर्गो हि यात्ययं ।। ३८०.
कर्म्मवश्या गुणाश्चैते सत्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ।। ३८०.
आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्यपचयौ नाम्य एकस्याखिलजन्तुषु ।। ३८०.
यदा नोपचयस्तस्य यदा नापचयो नृप। तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं ।। ३८०.
भूजङ्घापादकट्यूरुजठरादिषु संस्थिता । शिविकेयं तथा स्कन्धे तदा भावः समस्त्वया ।। ३८०.
तदन्यजन्तुभिर्भूप शिविसोत्थानकर्मणा । शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा ।। ३८०.
यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप । सोढ़व्यः स महाभारः कतरो नृपते मया ।। ३८०.
यद्द्रव्या शिविका चेयं तद्द्रव्यो भूतसंग्रहः । भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ।। ३८०.
तच्छ्रु त्वोवाच राजा तं गृहीत्वाङ्घ्री क्षमाप्य च । प्रसादं कुरु त्वक्त्वेमां शिविकां ब्रूहि श्रृण्वते । यो भवान् यन्निमित्तं वा यदागमनकारणम् ।। ३८०.
श्रूयतां कोहमित्येतद्वक्तु नैव च शक्यते । उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया ।। ३८०.
सुखदुःखोपभोगौ तु तौ देशाद्युपपादकौ । धर्माघर्मोद्भवौ भोक्तुं जन्तुर्देशादिमृच्छति ।। ३८०.
राजोवाच योऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते । आत्मन्येष न दोषाय शब्कदोहमिति यो द्विज ।। ३८०.
शब्दोहमित्रि दोषाय नात्मन्येष तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ।। ३८०.
यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तदा हि को भवान् कोहमित्येतद्विफलं वचः ।। ३८०.
त्वं राजा शिविका चेयं वयं वाहाः पुरःसराः । अयञ्च भवतो लोको न सदेनन्नृपोच्यते ।। ३८०.
वृक्षाद्दारु ततश्चेयं शिविका त्वदधिष्ठता । का वृक्षसंज्ञा जातास्य दारुसंज्ञाथ वा नृप ।। ३८०.
वृक्षारूढ़ो महाराजो नायं वदति चेतनः । न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं ।। ३८०.
शिविकादारुसङ्घातो रचनास्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ट तद्भेदे शिविका त्वया ।। ३८०.
पुमान् स्त्री गौरयं वाजी कुञ्जरो विहगस्तरुः । देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ।। ३८०.
जिह्वा व्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप । एते नाहं यतः सर्व्वेवाङ्निपादनहेतवः ।। ३८०.
किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं । तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते ।। ३८०.
पिण्डः पृथग् यतः पुंसः शिरःपाय्वादिलक्षणः । ततोऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहं ।। ३८०.
यदन्योऽस्ति परः कोपि मत्तः पार्थिवसत्तम । तदेषोहमयं चान्यो वक्तुमेवमपीष्यते ।। ३८०.
परमार्थभेदो न नगो न पशुर्नच पादपः । शरीराश्च विभेदाश्च य एते कर्मयोनयः ।। ३८०.
यस्तु राजेत् यल्लोके यच्च राजभटात्मकम् । तच्चान्यच्च नृपेत्थन्तु न सत् सम्यगनामयं ।। ३८०.
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः । पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं ।। ३८०.