देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परं । निर्वाणमथ एवायमात्मा ज्ञानमयोऽमलः ।। ३७९.
दुःखज्ञानमयोऽधर्मः प्रकृतेः स तु नात्मनः । जलस्य नाग्निना सङ्गः स्थालीसङ्गत्तथापि हि ।। ३७९.
शब्दास्ते कादिका धर्मास्तत् कृता वै महामुने । तथात्मा प्रकृतौ सङ्गादहंमानादिभूषितः ।। ३७९.
भजते प्राकृतान्धर्मान् अन्यस्तेभ्यो हि सोऽव्ययः । बन्धाय विषयासङ्गं मनो निर्विषयं धिये ।। ३७९.
विषयात्तत्समाकृष्य ब्रह्मभूतं हरिं स्मरेत् । आत्मभावं नयत्येनं तद्ब्रह्मध्यायिनं मुने ।। ३७९.
विचार्य्य स्वात्मनः शक्त्या लौहमाकर्षको यथा । आत्भप्रयत्नसापेज्ञा विशिष्टा या मनोगतिः ।। ३७९.
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते । विनिष्पन्दः समाधिस्थः परं ब्रह्माधिगच्छति ।। ३७९.
यमैः सन्नियमैः स्थित्या प्रत्याहृत्या मरुज्जयैः । प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः ।। ३७९.
वशीकृतैस्ततः कुर्य्यात् स्थितं चेतः शुभाश्रये । आश्रयश्चेतसो ब्रह्म मूर्त्तञ्चामूर्तकं द्विधा ।। ३७९.
हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा । त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते ।। ३७९.
हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा । त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते ।। ३७९.
प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरं । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्म संज्ञितम् ।। ३७९.
तच्च विष्णोः परं रुपमरुपस्याजमक्षरं । अशक्यं प्रथमं ध्यातुमतो मूर्त्तादि चितन्येत् ।। ३७९.
सद्भावभावमापन्नस्ततोऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ।। ३७९.
अग्निरुवाच अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतोऽगदत् । शालग्रामे तपश्चक्रे वासुदेवार्चनादिकृत् ।। ३८०.
मृगसङ्गान्मृगो बूत्वा ह्यन्तकाले स्मरन् मृगं । जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतोऽभवत् ।। ३८०.
अद्वैतब्रह्मभूतश्च जडवल्लोकमाचरत् । क्षत्ताऽसौ वीरराजस्य विष्टियोगममन्यत ।। ३८०.
उवाह शिविकामस्य क्षत्तुर्वचनचोदितः । गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं ।। ३८०.
ययौ जड़गतिः पश्चाद् ये त्वन्ये त्वरितं ययुः । शीघ्रान् शीघ्रगतीन् दृष्ट्वा अशीघ्रं तं नृपोऽव्रवीत् ।। ३८०.
राजोवाच किं श्रान्तोऽस्यल्पमध्वानं त्वयोढ़ा शिविका मम । किमायाससहो न त्वं पीवानसि निरीक्ष्यसे ।। ३८०.
ब्राह्मण उवाच नाहं पीवान्न वैषोढ़ा शिविका भवतो मया । न श्रान्तोऽस्मि न वायासो वोढव्योऽसि महीपते ।। ३८०.
भूमौ पादयुगन्तस्थौ जङ्घे पादद्वये स्थिते । उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ।। ३८०.
वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धस्थितेयं शिविका मम भावोऽत्र किं कृतः ।। ३८०.
शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं । तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ।। ३८०.
अहं त्वञ्च तथान्यं च भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो गुणवर्गो हि यात्ययं ।। ३८०.
कर्म्मवश्या गुणाश्चैते सत्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ।। ३८०.
आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्यपचयौ नाम्य एकस्याखिलजन्तुषु ।। ३८०.
यदा नोपचयस्तस्य यदा नापचयो नृप। तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं ।। ३८०.
भूजङ्घापादकट्यूरुजठरादिषु संस्थिता । शिविकेयं तथा स्कन्धे तदा भावः समस्त्वया ।। ३८०.
तदन्यजन्तुभिर्भूप शिविसोत्थानकर्मणा । शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा ।। ३८०.