कलशान्निः सृतं तोयं कूर्चाग्रं संस्पृशेन्नरः। शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत्
परिमृज्य पटेनाह्गं सवस्त्रं पण्डलं नयेत्। तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी
प्रक्षाल्य हस्तौ रेखाश्च तिस्त्रः पूर्वाग्रगामिनीः। दक्षिणादुत्तरान्ताश्च तिस्त्रश्चैवोत्तराग्रगाः
अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत्। द्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः
पात्राण्यासादयेत् पञ्चाद्दर्भस्त्रुक्स्त्रुवकादिभिः। बाहुमात्राः परिधय इध्मव्रश्चनमेव च
प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम्। प्रस्थद्व्यं तण्डुलानां युग्मं युग्ममदोमुखम्
प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागगग्रं कुशम्। अद्भिः पूर्य्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च
प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः । प्रोक्षणीमद्भिः सम्पूर्य्य प्रार्च्य दक्षे तु विन्यसेत्
चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत्। कुशानास्तीर्य्य पूर्वादौ परिधीन् स्थापयेत्ततः
वैष्णवीकरणं कुर्य्याद् गर्भाधानादिना नरः। गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्चनिः
नामादिसमावर्त्तनान्तं जुहुयादष्ट चाहुतीः। पूर्णाहुतीः प्रतिकर्म्म स्रुचा स्रुवसुयुक्तया
कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत्। कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मिका
सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च। विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः
प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ। ईशानाग्नेयकोणे तु जङ्घे वायव्यनैर्ऋते
उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते। गुणत्रयं मेखलाः स्युर्ध्यात्वैवं समिधो दश
पञ्चाधिकांस्तु जुहुयात् प्रणवान्मुष्टिमुद्रया । पुनराघारौ जुहुयाद्वाय्वग्न्यन्तं ततः श्रपेत्
ईशान्तं मूलप्रन्त्रेण आज्यभागौ तु होमयेत्। उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः
व्याहृत्या पद्ममध्यस्थं ध्यायेद्वह्निन्तु संस्कृतम्। वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम्
चन्द्रवक्त्रञ्च सूर्याक्षं जुहुयाच्छतमष्ट च। तदर्द्धञ्चष्ट मूलेन अह्गानाञ्च दशांशतः
अग्निरुवाच सम्पाताहुतिनासिच्य पवित्राण्याधिवासयेत्। तृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु
वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत्। विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा
कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः। दन्तकाष्ठञ्चामलकं पूर्वे कङ्कर्षणेन तु
प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकाम्। वारुणे चानिरुद्धेन सौम्ये नारायणेन च
दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनम्। ऐशान्यां शिरसा धूपं शिखया नैर्ऋतेप्यथ
मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे। चन्दनाम्ब्वक्षतदधिदूर्वाश्च पुटिकास्थिताः
गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत्। दद्यात्पूजाक्रमेणाथ स्वैः स्वैर्गन्धपवित्रकम्
मन्त्रैर्वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च। विष्णुतेजोभवं रम्यं सर्वपातकनाशनम्
सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहम्। सम्पूज्य धूपदीपद्यैर्व्रजेद् द्वारसमीपतः
गन्धपुष्पाक्षतोपेतं पवित्रञ्चाशिलेर्प्पयेत् । पवित्रं वैष्णवं तेजो महापातकनाशनम्
धर्म्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहम्। आसने परिवारादौ गुरौ दद्यात् पवित्रकम्