देहेन्द्रियमनोबुद्दिप्राणाहङ्कारवर्जितं । जाग्रत् सप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकं ।। ३७८.
नित्याशुद्दबुद्धमुक्तं सत्यमानन्दमद्वयम् । ब्रह्माहमस्म्यहं ब्रह्म सविज्ञानं विमुक्त ओं ३७८.
अग्निरुवाच यज्ञैश्च देवानाप्नोति वैराजं तपसा पदं । ब्रह्मणः कर्मसन्नयासाद्वैराग्यात् प्रकृतौ लयं ।। ३७९.
ज्ञानात् प्नाप्नोति कैवल्यं पञ्चैता गतयः स्मृता । प्रीतितापविषादादेर्विनिवृत्तिर्विरक्तता ।। ३७९.
सन्न्यासः कर्मणान्त्यागः कृतानामकृतैः सह । अव्यक्तादौ विशेषान्ते विकारोऽस्मिन्निविर्त्तते ।। ३७९.
चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते । परमात्मा च सर्वेषामाधारः परमेश्वरः ।। ३७९.
विष्णुनाम्ना च देवेषु वेदान्तेषु च गीयते । यज्ञेश्वरो यज्ञपुमान् प्रवृत्तेरिज्यते ह्यसौ ।। ३७९.
निवृत्तैर्ज्ञानयोगेन ज्ञानमूर्त्तिः स चेक्ष्यते । ह्रस्वदीर्घप्लुताद्यन्तु वचस्तत्पुरुषोत्तमः ।। ३७९.
तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं महामुने । आगमोक्तं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।। ३७९.
शब्दब्रह्मागममयं परं ब्रह्म सत्परम् । द्वे ब्रह्मणी वेदितव्ये ब्रह्मशब्दपरञ्च यत् ।। ३७९.
वेदादिविद्या ह्यपरमक्षरं ब्रह्म सत्परम् । तदेतद्भगवद्वाच्यमुपचारेऽर्चनेऽन्यतः ।। ३७९.
सम्मर्तेति तथा भर्त्ता भ्कारोऽर्थद्वयान्वितः । नेता गमयिता स्रष्टा गकारोऽयं महामुने ।। ३७९.
ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रइयः । ज्ञानवैराग्ययोश्चैव षण्णं भग इतीङ्गना ।। ३७९.
वसन्ति विष्णौ भूतानि स च धातुस्त्रिधात्मकः । एवं हरौ हि भगवान् शब्दोऽन्यत्रोपचारतः ।। ३७९.
उत्पत्तिं प्रलयञ्चैव भूतानामगतिं गतिं । वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ।। ३७९.
ज्ञानशक्तिः परैश्वर्य्यं वीर्य्यं तेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।। ३७९.
खाण्डिक्यजनकायाह योगं केशिध्वजः पुरा । अनात्मन्यात्मबुद्धिर्या आत्मस्वमिति या मतिः ।। ३७९.
अविद्याभवसम्भूतिर्वीजमेतद्द्विधा स्थितम् । पञ्चभूतात्मके देहे देही मोहतमाश्रितः ।। ३७९.
अहमेतदितीत्युच्चैः कुरुते कुमतिर्मतिं । इत्थञ्च पुत्रपौत्रेषु तद्देहोत्पातितेषु च ।। ३७९.
करोति पण्डितः साम्यमनात्मनि कलेवरे । सर्वदेहोपकाराय कुरुते कर्म्म मानवः ।। ३७९.
देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परं । निर्वाणमथ एवायमात्मा ज्ञानमयोऽमलः ।। ३७९.
दुःखज्ञानमयोऽधर्मः प्रकृतेः स तु नात्मनः । जलस्य नाग्निना सङ्गः स्थालीसङ्गत्तथापि हि ।। ३७९.
शब्दास्ते कादिका धर्मास्तत् कृता वै महामुने । तथात्मा प्रकृतौ सङ्गादहंमानादिभूषितः ।। ३७९.
भजते प्राकृतान्धर्मान् अन्यस्तेभ्यो हि सोऽव्ययः । बन्धाय विषयासङ्गं मनो निर्विषयं धिये ।। ३७९.
विषयात्तत्समाकृष्य ब्रह्मभूतं हरिं स्मरेत् । आत्मभावं नयत्येनं तद्ब्रह्मध्यायिनं मुने ।। ३७९.
विचार्य्य स्वात्मनः शक्त्या लौहमाकर्षको यथा । आत्भप्रयत्नसापेज्ञा विशिष्टा या मनोगतिः ।। ३७९.
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते । विनिष्पन्दः समाधिस्थः परं ब्रह्माधिगच्छति ।। ३७९.
यमैः सन्नियमैः स्थित्या प्रत्याहृत्या मरुज्जयैः । प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः ।। ३७९.
वशीकृतैस्ततः कुर्य्यात् स्थितं चेतः शुभाश्रये । आश्रयश्चेतसो ब्रह्म मूर्त्तञ्चामूर्तकं द्विधा ।। ३७९.
हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा । त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते ।। ३७९.