अग्निरुवाच अहं ब्रह्म परं ज्योतिः पृथिव्यबनलोज्झितं । अहं ब्रह्म परं ज्योतिर्वात्वाकाशविवर्जितं ।। ३७८.
अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् । अहं ब्रह्म परं ज्योतिर्विराडात्मविवर्जितं ।। ३७८.
अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् । अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिराकाराक्षरवर्जितम् । अहं ब्रह्म परं ज्योतिर्वाक्पाण्यङ्घ्रिविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः पायूपस्थविवर्जितम् । अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्चक्षुरुज्भ्क्तितम् ।। ३७८.
अहं ब्रह्म परं ज्योतीरसरूपविवर्जितम् । अहं ब्रह्म परं ज्योतिः सर्वगन्धविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितम् । अहं ब्रह्म परं ज्योतिः स्पर्शशब्दविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिर्म्मनोबुद्धिविवर्जितम् । अहं ब्रह्म परं ज्योतिश्रित्ताहङ्कारवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितम् । अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः समानपरिवर्जितम् । अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः शोकमोहविवर्जितम् । अहं ब्रह्म परं ज्योतिः क्षुत्पिपासाविवर्जितम् ।। ३७८.
अहं ब्रहम परं ज्योतिः शब्दोद्भूतादिवर्जितम् । अहं ब्रह्म परं ज्योतिर्हिरण्यगर्भवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः स्वप्नावस्थाविवर्जितम् । अहं ब्रह्म परं ज्योतिस्तेजसादिविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिरपकारादिवर्जितम् । अहं ब्रह्म परं ज्योतिः सभाज्ञानविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिरध्याहृतविवर्जितम् । अहं ब्रह्म परं ज्योतिः सत्त्वादिगुणवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः सदसद्भाववर्जितम् । अहं ब्रह्म परं ज्योतिः सर्वावयववर्जितं ।। ३७८.
अहं ब्रह्म परं ज्योतिर्भेदाभेदविवर्जितं । अहं ब्रह्म परं ज्योतिः सुषुप्तिस्थानवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः प्राज्ञभावविवर्जितम् । अहं ब्रह्म परं ज्योतिर्मकारादिविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिर्मानमेयविवर्जितम् । अहं ब्रह्म परं ज्योतिर्मितिमातृविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः साक्षइत्वादिविवर्जितम् । अहं ब्रह्म परं ज्योतिः कार्य्यकारणवर्जितम् ।। ३७८.
देहेन्द्रियमनोबुद्दिप्राणाहङ्कारवर्जितं । जाग्रत् सप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकं ।। ३७८.
नित्याशुद्दबुद्धमुक्तं सत्यमानन्दमद्वयम् । ब्रह्माहमस्म्यहं ब्रह्म सविज्ञानं विमुक्त ओं ३७८.
अग्निरुवाच यज्ञैश्च देवानाप्नोति वैराजं तपसा पदं । ब्रह्मणः कर्मसन्नयासाद्वैराग्यात् प्रकृतौ लयं ।। ३७९.
ज्ञानात् प्नाप्नोति कैवल्यं पञ्चैता गतयः स्मृता । प्रीतितापविषादादेर्विनिवृत्तिर्विरक्तता ।। ३७९.
सन्न्यासः कर्मणान्त्यागः कृतानामकृतैः सह । अव्यक्तादौ विशेषान्ते विकारोऽस्मिन्निविर्त्तते ।। ३७९.
चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते । परमात्मा च सर्वेषामाधारः परमेश्वरः ।। ३७९.
विष्णुनाम्ना च देवेषु वेदान्तेषु च गीयते । यज्ञेश्वरो यज्ञपुमान् प्रवृत्तेरिज्यते ह्यसौ ।। ३७९.
निवृत्तैर्ज्ञानयोगेन ज्ञानमूर्त्तिः स चेक्ष्यते । ह्रस्वदीर्घप्लुताद्यन्तु वचस्तत्पुरुषोत्तमः ।। ३७९.
तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं महामुने । आगमोक्तं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।। ३७९.
शब्दब्रह्मागममयं परं ब्रह्म सत्परम् । द्वे ब्रह्मणी वेदितव्ये ब्रह्मशब्दपरञ्च यत् ।। ३७९.