जाग्रत्स्वप्ने च चैतन्यं सङ्कीर्णत्वान्न बुध्यते । विज्ञानरहितः प्राणः सुषुप्ते ज्ञायते यतः ।। ३७७.
अतो नात्मेन्द्रियं तस्मादिन्द्रियादिकमात्मनः । अहङ्काराऽपि नैवात्मा देहवद्व्यभिचारतः ।। ३७७.
उक्तेभ्यो व्यतिरिक्तोऽयमात्मा सर्वहृदि स्थितः । सर्वद्रष्टा च भोक्ता च नक्तमुज्ज्वलदीपवत् ।। ३७७.
समाध्यारम्भकाले च एवं सञ्चिन्तयेन्मुनिः । यतो ब्रह्मण आकाशं खाद्वायुर्वायुतोऽनलः ।। ३७७.
अग्नेरापो जलात्पृथ्वी ततः सूक्ष्मं शरीरकं । अपञ्चीकृतभूतेभ्य आसन् पञ्चीकृतान्यतः ।। ३७७.
स्थूलं शरीरं ध्यात्वास्माल्ल्यं ब्रह्मणि चिन्तयेत् । पञ्चोकृतानि भूतानि तत्कार्य्यञ्च विराट्स्मृतम् ।। ३७७.
एतत् स्थूलं शरीरं हि आत्मनो ज्ञानकल्पितं । इन्द्रियैरथ विज्ञानं धीरा जागरितं विदुः ।। ३७७.
विश्वस्तदबिमानी स्यात् त्रयमेनदकारकं । अपञ्चीकृतभूतानि तत्कार्थं लिङ्गमुच्यते ।। ३७७.
संयुक्तं सप्तदशभिर्हिरण्यगर्भसंज्ञितं । शरीरमात्मनः सूक्ष्मं लिङ्गमित्यभिधीयते ।। ३७७.
जाग्रत्संस्कारजः स्वप्नः प्रत्ययो विषयात्मकः । आत्मा तदुपमानी स्यात्तैजसो ह्यप्रपञ्चतः ।। ३७७.
स्थूलसूक्षअमशरीराख्यद्वयस्यैकं हि कारणं । आत्मा ज्ञानञ्च साभासं तदध्याहृतमुच्यते ।। ३७७.
न सन्नासन्न सदसदेतत्सावयवं न तत् । निर्गतावयवं नेति नाभिन्नं भिन्नमेव च ।। ३७७.
भिन्नाभिन्नं ह्यनिर्वाच्यं बन्धसंसारकारकं । एकं स ब्रह्म विज्ञानात् प्राप्तं नैव च कर्म्मभिः ।। ३७७.
सर्वात्मना हीन्द्रियाणां संहारः कारणात्मनां । बुद्धेः स्थानं सुषुप्तं स्यात्तद्द्वयस्याभिमानवान् ।। ३७७.
प्राज्ञ आत्मा त्रयञ्चैतत् म्कारः प्रणवः स्मृतः । अकारश्च उकारोऽसौ मकारो ह्ययमेव च ।। ३७७.
अहं साक्षी च चिन्मात्रो जाग्रत्स्वप्नादिकस्य च । नाज्ञानञ्चैव तत्कार्यं संसारादिकबन्धनं ।। ३७७.
नित्यशुद्धबन्धमुक्तसत्यमानन्दमद्वयं । ब्रह्माहमस्म्यहं ब्रह्म परं ज्योतिर्विमुक्त ओं ।। ३७७.
अहं ब्रह्म परं ज्ञानं समाधिर्बन्धघातकः । चिरमानन्दकं ब्रह्मा सत्यं ज्ञानमनन्तकं ।। ३७७.
अयमात्मा परम्ब्रह्म तद् ब्रह्म त्वमसीति च । गुरुणा बोधितो जीवो ह्यहं ब्रह्मस्मि वाह्यतः ।। ३७७.
सोऽसावादित्यपुरुषः सोऽसावहमखण्ड ओं । मुच्यतेऽसारसंसाराद् ब्रह्मज्ञो ब्रह्म तद्भवेत् ।। ३७७.
अग्निरुवाच अहं ब्रह्म परं ज्योतिः पृथिव्यबनलोज्झितं । अहं ब्रह्म परं ज्योतिर्वात्वाकाशविवर्जितं ।। ३७८.
अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् । अहं ब्रह्म परं ज्योतिर्विराडात्मविवर्जितं ।। ३७८.
अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् । अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिराकाराक्षरवर्जितम् । अहं ब्रह्म परं ज्योतिर्वाक्पाण्यङ्घ्रिविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः पायूपस्थविवर्जितम् । अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्चक्षुरुज्भ्क्तितम् ।। ३७८.
अहं ब्रह्म परं ज्योतीरसरूपविवर्जितम् । अहं ब्रह्म परं ज्योतिः सर्वगन्धविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितम् । अहं ब्रह्म परं ज्योतिः स्पर्शशब्दविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिर्म्मनोबुद्धिविवर्जितम् । अहं ब्रह्म परं ज्योतिश्रित्ताहङ्कारवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितम् । अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितम् ।। ३७८.
अहं ब्रह्म परं ज्योतिः समानपरिवर्जितम् । अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितम् ।। ३७८.