अनादिरादिमान् यश्च स एव पुरुषः परः । लिङ्गेन्द्रियैरुपग्राह्यः स विकार उदाहृतः ।। ३७६.
यतो वेदाः पुराणानि विद्योपनिषदस्तथा । श्लोकाः सूत्राणि भाष्याणि यच्चान्यद्वाङ्मयं भवेत् ।। ३७६.
पितृयानोपवीथ्याश्च यदगस्त्यस्य चान्तरं । तेनाग्निहोत्रिणो यान्ति प्र्जाकामा दिवं प्रति ।। ३७६.
ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः । अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः ।। ३७६.
पुनरावर्त्तने वीजभूता धर्म्मप्रवर्त्तकाः । सप्तर्षिनागवीथ्याश्च देवलोकं समाश्रिताः ।। ३७६.
तावन्त एव मुनयः सर्वारम्भविवर्ज्जिताः । तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।। ३७६.
यत्र यत्रावतिष्ठनेते यावदाहूतसंप्लवं । वेदानुवचनं यज्ञा ब्रह्मचर्य्यं तपो दमः ।। ३७६.
श्रद्धोपवासः सत्यत्वमात्मनो ज्ञानहेतवः । स त्वाश्रमैर्न्निदिध्यास्यः समस्तैरेवमेव तु ।। ३७६.
द्रष्टव्य्स्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः । य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः ।। ३७६.
उपासते द्विजाः सत्यं श्रद्धया परया युताः । क्रमात्ते सम्भवन्त्यर्च्चिंरहः शुक्लं तथोत्तरं ।। ३७६.
अयनन्देवलोकञ्च सवितारं सविद्युतं । ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलोकिकान् ।। ३७६.
करोति पुनारावृत्तिस्तेषामिह न विद्यते । यज्ञेन तपसा दानैर्ये हि स्वर्गजितो जनाः ।। ३७६.
धूमं निशां कृष्णपक्षं दक्षिणायनमेव च । पितृलोकं चन्द्रमसं नभो वायुं जलं महीं ।। ३७६.
क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च । एतद्यो न विजानाति मार्गद्वितयमात्मनः ।। ३७६.
दन्दशूकः पतङ्गो वा बवेत्कीटोऽथवा कृमिः । हृदये दीपवद्ब्रह्म ध्यानाज्जीवो मृतो भवेत् ।। ३७६.
न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ।। ३७६.
अग्निरुवाच ब्रह्मज्ञानं प्रवक्ष्यामि संसाराज्ञानमुक्तये । अयमात्मा परं ब्रह्म अहमस्मीति मुच्यते ।। ३७७.
देह आत्मा न भवति दृश्यत्वाच्च घटादिवत् । प्रसुप्ते मरणे देहादात्माऽन्यो ज्ञायते ध्रुवं ।। ३७७.
देहः स चेद्व्यवहरेदविकार्य्यादिसन्निभः । चक्षुरादीनीन्द्रियाणि नात्मा वै करणं त्वतः ।। ३७७.
मनो धीरपि आत्मा न दीपवत् करणं त्वतः । प्राणोऽप्यात्मा न भवति सुषुप्ते चित्प्रभावतः ।। ३७७.
जाग्रत्स्वप्ने च चैतन्यं सङ्कीर्णत्वान्न बुध्यते । विज्ञानरहितः प्राणः सुषुप्ते ज्ञायते यतः ।। ३७७.
अतो नात्मेन्द्रियं तस्मादिन्द्रियादिकमात्मनः । अहङ्काराऽपि नैवात्मा देहवद्व्यभिचारतः ।। ३७७.
उक्तेभ्यो व्यतिरिक्तोऽयमात्मा सर्वहृदि स्थितः । सर्वद्रष्टा च भोक्ता च नक्तमुज्ज्वलदीपवत् ।। ३७७.
समाध्यारम्भकाले च एवं सञ्चिन्तयेन्मुनिः । यतो ब्रह्मण आकाशं खाद्वायुर्वायुतोऽनलः ।। ३७७.
अग्नेरापो जलात्पृथ्वी ततः सूक्ष्मं शरीरकं । अपञ्चीकृतभूतेभ्य आसन् पञ्चीकृतान्यतः ।। ३७७.
स्थूलं शरीरं ध्यात्वास्माल्ल्यं ब्रह्मणि चिन्तयेत् । पञ्चोकृतानि भूतानि तत्कार्य्यञ्च विराट्स्मृतम् ।। ३७७.
एतत् स्थूलं शरीरं हि आत्मनो ज्ञानकल्पितं । इन्द्रियैरथ विज्ञानं धीरा जागरितं विदुः ।। ३७७.
विश्वस्तदबिमानी स्यात् त्रयमेनदकारकं । अपञ्चीकृतभूतानि तत्कार्थं लिङ्गमुच्यते ।। ३७७.
संयुक्तं सप्तदशभिर्हिरण्यगर्भसंज्ञितं । शरीरमात्मनः सूक्ष्मं लिङ्गमित्यभिधीयते ।। ३७७.
जाग्रत्संस्कारजः स्वप्नः प्रत्ययो विषयात्मकः । आत्मा तदुपमानी स्यात्तैजसो ह्यप्रपञ्चतः ।। ३७७.