रसायनानि दिव्यानि दिव्याश्चौषधयस्तथा । समस्तानि च शिल्पानि कलाः सर्वाश्च विन्दति ।। ३७६.
सुरेन्द्रकन्या इत्याद्या गुणाश्च प्रतिभादयः । तृणवत्तान्त्यजेद् यस्तु तस्य विष्णुः प्रसीदति ।। ३७६.
अणिमादिगुणैश्वर्य्यः शिष्ये ज्ञानं प्रकाश्य च । भुक्त्वा भोगान् यथेच्छातस्तनून्त्यक्त्वालयात्ततः ।। ३७६.
तिष्ठेत् स्वात्मनि विज्ञान आनन्दे ब्रह्मणीश्वरे । मलिनो हि यथादर्श आत्मज्ञानाय न क्षमः ।। ३७६.
सर्वाश्रयान्निजे देहे देही विन्दति वेदनां । योगयुक्तस्तु सर्व्वेषां योगान्नाप्नोति वेदनां ।। ३७६.
आकाशमेकं हि यथा घटादिषु पृथग् भवेत् । तथात्मैको ह्यनेकेषु जलाधारेष्विवांशुमान् ।। ३७६.
ब्रह्मखानिलतेजांसि जलभूक्षितिधातवः । इमे लोका एष चात्मा तस्माच्च सचराचरं ।। ३७६.
मृद्दण्ड चक्रसंयोगात् कुम्भकारो यथा घटं । करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ।। ३७६.
करणान्येवमादाय तासु तास्विह योनिषु । सृजत्यात्मानमात्मैव सम्भूय करणानि च ।। ३७६.
कर्मणादोषमोहाभ्यामिच्छयैव स बध्यते । ज्ञानाद्विमुच्यते जीवो धर्माद् योगी न रोगभाक् ।। ३७६.
वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः । विक्रियापि च दृष्टैवमकाले प्राणसंक्षयः ।। ३७६.
अनन्ता रश्मयस्तस्य दीपवद् यः स्थितो हृदि । सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः ।। ३७६.
ऊद्र्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्य्यमण्डलं । ब्रह्मलोकमतिक्रम्य तेन याति पराङ्गतिं ।। ३७६.
यदस्यान्यद्रश्मिशतमूद्र्ध्वमेव व्यवस्थितम् । तेन देवनिकायानि धामानि प्रतिपद्यते ।। ३७६.
ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः । इह कर्मोपभोगाय तैश्च सञ्चरते हि सः ।। ३७६.
बुद्धीन्द्रियाणि सर्वाणि मनः कर्मेन्द्रियाणि च । अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ।। ३७६.
अव्यक्त आत्मा ज्ञेत्रज्ञः क्षेत्रस्यास्य निगद्यते । ईश्वरः सर्वभूतस्य सन्नसन् सदसच्च सः ।। ३७६.
बुद्धेरुत्पत्तिरव्यक्ता ततोऽहङ्कारसम्भवः । तस्मात् खादीनि जायन्ते एकोत्तरगुणानि तु ।। ३७६.
शब्दः स्पर्शश्च रुपञ्च रसों गन्धश्च तद्गुणाः । यो यस्मिन्नाश्रितश्चैषां स तस्मिन्नेव लीयते ।। ३७६.
सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीत्तिताः । रजस्तमोब्यामाविष्टश्चक्रवद्भ्राम्यते हि सः ।। ३७६.
अनादिरादिमान् यश्च स एव पुरुषः परः । लिङ्गेन्द्रियैरुपग्राह्यः स विकार उदाहृतः ।। ३७६.
यतो वेदाः पुराणानि विद्योपनिषदस्तथा । श्लोकाः सूत्राणि भाष्याणि यच्चान्यद्वाङ्मयं भवेत् ।। ३७६.
पितृयानोपवीथ्याश्च यदगस्त्यस्य चान्तरं । तेनाग्निहोत्रिणो यान्ति प्र्जाकामा दिवं प्रति ।। ३७६.
ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः । अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः ।। ३७६.
पुनरावर्त्तने वीजभूता धर्म्मप्रवर्त्तकाः । सप्तर्षिनागवीथ्याश्च देवलोकं समाश्रिताः ।। ३७६.
तावन्त एव मुनयः सर्वारम्भविवर्ज्जिताः । तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।। ३७६.
यत्र यत्रावतिष्ठनेते यावदाहूतसंप्लवं । वेदानुवचनं यज्ञा ब्रह्मचर्य्यं तपो दमः ।। ३७६.
श्रद्धोपवासः सत्यत्वमात्मनो ज्ञानहेतवः । स त्वाश्रमैर्न्निदिध्यास्यः समस्तैरेवमेव तु ।। ३७६.
द्रष्टव्य्स्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः । य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः ।। ३७६.
उपासते द्विजाः सत्यं श्रद्धया परया युताः । क्रमात्ते सम्भवन्त्यर्च्चिंरहः शुक्लं तथोत्तरं ।। ३७६.