शिरो धीरञ्च कारञ्च कण्ठं चाधोमुखे स्मरेत् । ध्यायेदच्छिन्नचित्तात्मा भूयो भूतेन चात्मना ।। ३७५.
स्फुरच्छीकरसंस्पर्शप्रभूते हिमगामिभिः । धाराभिरखिलं विश्वमापूर्य्य भुवि चिन्तयेत् ।। ३७५.
ब्रह्मरन्ध्राच्च संक्षोभाद्यावदाधारमण्डलम् । सुषुम्नान्तर्गतो बूत्वा संपूर्णेन्दुकृतालयं ।। ३७५.
संप्लाव्य हिमसंस्पर्श तोयेनामृतमूर्त्तिना । क्षुत् पिपासाक्रमप्रायसन्तापपरिपीड़ितः ।। ३७५.
धारयेद्वारुणीं मन्त्री तुष्ट्यर्थं चाप्यतन्त्रितः । वारुणी धारणा प्रोक्ता ऐशानीधारणां श्रृषु ।। ३७५.
व्योग्नि ब्रह्ममये पद्मे प्राणापणे क्षयङ्गते । प्रसादं चिन्तयेद् विष्णोर्यावच्चिन्ता क्षयं गता ।। ३७५.
महाभावञ्चपेत् सर्व्वं ततो व्यापक ईश्वरः । अर्द्धेन्दुं परमं शान्तं निराभासन्निरञ्जनं ।। ३७५.
असत्यं सत्यमाभाति तावत्सर्वं चराचरं । यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः ।। ३७५.
दृष्टे तस्मिन् परे तत्त्वे आब्रह्म सचराचरं । प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनं ।। ३७५.
मातृमोदकवत्सर्वं जपहोमार्चनादिकं । विष्णुमन्त्रेण वा कुर्य्यादमृतां धारणां वदे ।। ३७५.
संपूर्णेन्दुनिभं ध्यायेत् कमलं तन्त्रिमुष्टिगं । शिरःस्थं चिन्तयेत् यत्नाच्छशाङ्गायुतवर्चसं ।। ३७५.
सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितं । तथा हृत्कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् ३७५.
अग्निरुवाच यदात्ममात्रं निर्भासं स्तिमितोदधिवत् स्थितं । चैतन्यरूपवद्ध्यानं तत् समाधिरिहोच्यते ।। ३७६.
ध्यायन्मनः सन्निवेश्य यस्तिष्ठेदचलस्थिरः । निर्वातानलवद्योगी समाधिस्थः प्रकीर्त्तितः ।। ३७६.
न श्रृणोति न चाघ्राति न पश्यति न वम्यति । न च सपर्शं विजानाति न सङ्कल्पयते मनः ।। ३७६.
न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् । एवमीश्वरसंलीनः समाधिस्थः स गीयते ।। ३७६.
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । ध्यायतो विष्णुमात्मानं समाधिस्तस्य योगिनः ।। ३७६.
उपसर्गाः प्रवर्त्तन्ते दिव्याः सिद्धिप्रसूचकाः । पातितः श्रावणो धातुर्दशनस्बाङ्गवेदनाः ।। ३७६.
प्रार्थयन्ति च तं देवा भोगैर्दिव्यैश्च योगिनं । नृपाश्च पृथिवीदानैर्धनैस्च सुधनाधिपाः ।। ३७६.
वेदादिसर्व्वशास्त्रञ्च स्वयमेव प्रवर्तते । अभीष्टछन्दोविषयं काव्यञ्चास्य प्रवर्त्तते ।। ३७६.
रसायनानि दिव्यानि दिव्याश्चौषधयस्तथा । समस्तानि च शिल्पानि कलाः सर्वाश्च विन्दति ।। ३७६.
सुरेन्द्रकन्या इत्याद्या गुणाश्च प्रतिभादयः । तृणवत्तान्त्यजेद् यस्तु तस्य विष्णुः प्रसीदति ।। ३७६.
अणिमादिगुणैश्वर्य्यः शिष्ये ज्ञानं प्रकाश्य च । भुक्त्वा भोगान् यथेच्छातस्तनून्त्यक्त्वालयात्ततः ।। ३७६.
तिष्ठेत् स्वात्मनि विज्ञान आनन्दे ब्रह्मणीश्वरे । मलिनो हि यथादर्श आत्मज्ञानाय न क्षमः ।। ३७६.
सर्वाश्रयान्निजे देहे देही विन्दति वेदनां । योगयुक्तस्तु सर्व्वेषां योगान्नाप्नोति वेदनां ।। ३७६.
आकाशमेकं हि यथा घटादिषु पृथग् भवेत् । तथात्मैको ह्यनेकेषु जलाधारेष्विवांशुमान् ।। ३७६.
ब्रह्मखानिलतेजांसि जलभूक्षितिधातवः । इमे लोका एष चात्मा तस्माच्च सचराचरं ।। ३७६.
मृद्दण्ड चक्रसंयोगात् कुम्भकारो यथा घटं । करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ।। ३७६.
करणान्येवमादाय तासु तास्विह योनिषु । सृजत्यात्मानमात्मैव सम्भूय करणानि च ।। ३७६.
कर्मणादोषमोहाभ्यामिच्छयैव स बध्यते । ज्ञानाद्विमुच्यते जीवो धर्माद् योगी न रोगभाक् ।। ३७६.