ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः । तस्मादशुद्धं सन्त्यज्य ह्यनित्यं वाह्यसाधनं ।। ३७४.
यज्ञाद्यं कर्म्म सन्त्यज्य योगमत्यर्थमभ्यसेत् । विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितं ।। ३७४.
चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयं । तमः प्रच्छाद्य रजसा सत्त्वेन च्छादयेद्रजः ।। ३७४.
ध्यायेत्त्रिमण्डलं पूर्वं कृष्णां रक्तं सितं क्रमात् । सत्त्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः ।। ३७४.
ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत् । ऐश्वर्य्यं पङ्कजं दिव्यं पुरुषोपरि संस्थितं ।। ३७४.
द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितम् । नालमष्टङ्गुलं तस्य नाभिकन्दसमुद्भ्वं ।। ३७४.
पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम् । कर्णिकाकेशरं नालं ज्ञानवैराग्यभुत्तमम् ।। ३७४.
विष्णुधर्म्मश्च तत्कन्दमिति पद्मं विचिन्तयेत् । तद्धर्मज्ञानवैराग्यं शिवैश्वर्य्यमयं परं ।। ३७४.
ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् । तत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृति ।। ३७४.
अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरं । कदम्वगोलकाकारं तारं रूपमिव स्थितं ।। ३७४.
ध्यायेद्वा रश्मिजालेन दीप्यमानं समन्ततः । प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्वरं ।। ३७४.
ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरं । मनःस्थित्यर्थमिच्छन्ति स्थूलध्यानमनुक्रमात् ।। ३७४.
तद्भूतं निश्चलीभूतं लभेत् सूक्ष्मेऽपि संस्थितं । नाभिकन्दे स्थितं नालं दशाङ्गुलसमायतं ।। ३७४.
नालेनाष्टदलं पद्म द्वादशाङ्गुलविस्तृतं । सकर्णिके केसराले सूर्य्यसोमाग्निमण्डलं ।। ३७४.
अग्निमण्डलमध्यस्थः शङ्खक्रगदाधरः । पद्मी चतुर्भुजो विष्णुरथवाष्टभुजो हरिः ।। ३७४.
शार्ङ्गाक्षवलयधरः पाशाङ्कुशधरः परः । स्वर्णबर्णः श्वेतवर्णः सश्रीवत्सः सकौस्तुभः ।। ३७४.
वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः । रत्नोज्जवलकिरीटश्च पीताम्बरधरो महान् ।। ३७४.
सर्व्वाभरणभूषाढ्यो वितस्तिर्वा यथेच्छया । अहं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं ।। ३७४.
ध्यानाच्छ्रान्तो जपेन्मन्त्रं जपाच्छ्रान्तश्च चिन्तयेत् । जपध्यानादियुक्तस्य विष्णुः शीघ्रं प्रसीदति ।। ३७४.
जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति षोड़शीं । जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः ३७४.
अग्निरुवाच वारणा मनसो ध्येये संस्थितिर्ध्यानवद् द्विधा । मूर्त्तामूर्तहरिध्यानमनोधारणतो हरिः ।। ३७५.
यद्वाह्यावस्थितं लक्षअयं तस्मान्न चलते मनः । तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः ।। ३७५.
कालावधि परिच्छिन्नं देहे संस्थापितं मनः । न प्रच्यवति यल्लक्ष्याद्धारणा साऽभिधीयते ।। ३७५.
धारणा द्वादशायामा ध्यानं द्वादशधारणाः । ध्यानं द्वादशकं यावत्समाधिरभिधीयते ।। ३७५.
धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते । कुलैकविंशमुत्तार्य्य स्वर्य्याति परमं पदं ।। ३७५.
यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः । तत्तदङ्गं धिया व्याप्य दारयेत्तत्त्वधारणं ।। ३७५.
आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका । साग्निः शिखा फडन्ता च विष्णोः कार्य्या द्विजोत्तम ।। ३७५.
नाड़ीभिर्विकटं दिव्यं शूलाग्रं वेधयेच्छुभम् । पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डलमावृतं ।। ३७५.
तिर्य्यक्चाधोद्र्ध्वभागेभ्यः प्रयान्त्योऽतीव तेजसा । चिन्तयेत् साध्केन्द्रस्तं यावत्सर्वं महामुने ।। ३७५.
भस्मीभूतं शरीरं स्वन्ततश्चैवोपसंहरेत् । शीतश्लेष्मादयः पापं विनश्यन्ति द्विजातयः ।। ३७५.