इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ।। ३७३.
शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः । मनश्च सारथिः प्रोक्तः प्राणायामः कशः स्मृतः ।। ३७३.
ज्ञानवैराग्यरश्मिभ्यां सायया विधृतं मनः । शनैर्निश्चलतामेति प्राणायामैकसंहितम् ।। ३७३.
जलबिन्दुं [https://vedastudy.yolasite.com/kusha1.php कुशाग्रेण] मासे मासे पिबेत्तु यः । संवत्सरशतं साग्रं प्राणायामश्च तत्समः ।। ३७३.
इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ । आहृत्य यो निगृह्णाति प्रत्याहारः स उच्यते ।। ३७३.
उद्धरेदात्मनात्मानं मज्जमानं यथाम्भसि । भोगनद्यतिवेगेन ज्ञानवृक्षं समाश्रयेत् ।। ३७३.
अग्निरुवाच ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहुर्मुहुः । अनाक्षिप्तेन मनसा ध्यानमित्यभिधीयते ।। ३७४.
आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च । ब्रह्मचिन्तासमा शक्तिर्ध्यानं नाम तदुच्यते ।। ३७४.
ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते ।। ३७४.
ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रचित् । ध्यानमेतत्समुद्दिष्टं प्रत्ययस्यैकभावना ।। ३७४.
एवं ध्यानसमायुक्तः स्वदेहं यः परित्यजत् । कुलं स्वजनमित्राणि समुद्धृत्य हरिर्भवेत् ।। ३७४.
एवं मुहूर्त्तमर्धं वा ध्यायेद् यः श्रद्ध्या हरिं । सोपि यां गतिमाप्नोति न तां सर्वैर्महामखैः ।। ३७४.
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनं । एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्ववित् ।। ३७४.
योगाभ्यासाद्भवेन्मुक्तिरैश्वर्य्यञ्चाष्टधा महत् । ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः ।। ३७४.
विष्णुभक्तः सदोत्साही ध्यातेत्थं पुरुषः स्मृतः । मूर्तामूर्त्तं परम्ब्रह्म हरेर्ध्यानं हि चिन्तनम् ।। ३७४.
सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः । अणिमादिगुणैश्वर्य्यं मुक्तिर्ध्यानप्रयोजनम् ।। ३७४.
फलेन योजको विष्णुरतो ध्यायेत् परेश्वरं । गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन्निमिषन्नपि ।। ३७४.
शुचिर्वाप्यशुचिर्वापि ध्यायेत् सततमीश्वरम् । स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम् ।। ३७४.
हृत्पद्मपीठिकामध्ये ध्यानयोगेन पूजयेत् । ध्यानयज्ञः परः शुद्धः सर्वदोषक्विर्ज्जितः ।। ३७४.
तेनेष्ट्वा मुक्तिमाप्नोति वाह्यशुद्धैश्च नाध्वरैः । हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्तसाधनः ।। ३७४.
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः । तस्मादशुद्धं सन्त्यज्य ह्यनित्यं वाह्यसाधनं ।। ३७४.
यज्ञाद्यं कर्म्म सन्त्यज्य योगमत्यर्थमभ्यसेत् । विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितं ।। ३७४.
चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयं । तमः प्रच्छाद्य रजसा सत्त्वेन च्छादयेद्रजः ।। ३७४.
ध्यायेत्त्रिमण्डलं पूर्वं कृष्णां रक्तं सितं क्रमात् । सत्त्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः ।। ३७४.
ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत् । ऐश्वर्य्यं पङ्कजं दिव्यं पुरुषोपरि संस्थितं ।। ३७४.
द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितम् । नालमष्टङ्गुलं तस्य नाभिकन्दसमुद्भ्वं ।। ३७४.
पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम् । कर्णिकाकेशरं नालं ज्ञानवैराग्यभुत्तमम् ।। ३७४.
विष्णुधर्म्मश्च तत्कन्दमिति पद्मं विचिन्तयेत् । तद्धर्मज्ञानवैराग्यं शिवैश्वर्य्यमयं परं ।। ३७४.
ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् । तत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृति ।। ३७४.
अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरं । कदम्वगोलकाकारं तारं रूपमिव स्थितं ।। ३७४.