वाङ्मयः प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् । अकारश्च तथोकारो मकारश्चार्द्धमात्रया ।। ३७२.
तिस्रो मात्रास्त्रयो वेदाः लोका भूरादयो गुणाः । जाग्रत् स्वप्नः सुषुप्तिश्च ब्रह्मविष्णुमहेश्वराः ।। ३७२.
प्रद्युम्नः श्रीर्वासुदेवः सर्वमोङ्कारकः क्रमात् । अमात्रो नष्टमात्रश्च द्वैतस्यापगमः शिवः ।। ३७२.
ओङ्कारो विदितो येन स मुनिर्नेतरो मुनिः । चतुर्थी मात्रा गान्धारी प्रयुक्ता मूर्ध्निलक्ष्यते ।। ३७२.
तत्तुरीयं परं ब्रह्म ज्योतिर्दीपो घटे यथा । तथा हृत्पद्मनिलयं ध्यायेन्नित्यं जपेन्नरः ।। ३७२.
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।। ३७२.
एतदेकाक्षरं ब्रह्म एतदेकाक्षरं परं । एतदेकाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ।। ३७२.
छन्दोऽस्य देवी गायत्री अन्तर्य्यामी ऋषिः स्मृतः । देवता परमात्मास्य नियोगो भुक्तिमुक्तये ।। ३७२.
भूरगन्यात्मने हृदयं भुवः प्राजापत्यात्मने । शिरः स्वः सूर्य्यात्मने च शिखा कवचमुच्यते ।। ३७२.
ओंभूर्भुवः स्वः कवचं सत्यात्मने ततोऽस्त्रकं । विन्यस्य पूजयेद्विष्णुं जपेद्वै भुक्तिमुक्तये ।। ३७२.
जुहुयाच्च तिलाज्यादि सर्वं सम्पद्यते नरे । यस्तु द्वादशसाहस्रं जपमन्वहमाचरेत् ।। ३७२.
तस्य द्वादशभिर्मासैः परं ब्रह्मा प्रकाशते । अणिमादि कोटिजप्याल्लक्षात्सारस्वतादिकं ।। ३७२.
वैदिकस्तान्त्रिको मिश्रो विष्णोर्वै त्रिविधो मखः । त्रयाणामीप्सितेनैकविधिना हरिमर्च्चयेत् ।। ३७२.
प्रणम्य दण्डवद्भमौ नमस्कारेण योऽर्चयेत् । स याङ्गतिमवाप्नोति न तां क्रतुशतैरपि ।। ३७२.
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। ३७२.
अग्निरुवाच आसनं कमलाद्युक्तं तद्बद्ध्वा चिन्तयेत्परं । शुचौ देशे प्रतिष्ठाप्य स्थिरमासनामात्मनः ।। ३७३.
नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं । तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।। ३७३.
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये । समकायशिरग्रीवं धारयन्नचलं स्थिरः ।। ३७३.
सम्प्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् । पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ।। ३७३.
उरुभ्यामुपरिस्थाप्य बाहू तिर्य्यक् प्रयत्नतः । दक्षिणं करपृष्ठञ्च न्यसेद्वामतलोपरि ।। ३७३.
उन्नम्य शनकैर्वक्त्त्रं मुखं विष्टभ्य चाग्रतः । प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनं ।। ३७३.
नासिकापुटमङ्गुल्या पीड्यैव च परेण च । औदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ।। ३७३.
बाह्येन वायुना देहं दृतिवत् पूरयेद्यथा । तथा पूर्णश्च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः ।। ३७३.
. न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् । सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ।। ३७३.
कन्यकः सकृदुद्घातः स वै द्वादशमात्रिकः । मध्यमश्च द्विरुद्घातश्चतुर्विंशतिमात्रिकः ।। ३७३.
उत्तमश्च त्रिरुद्घातः षट्त्रिंशत्तालमात्रिकः । स्वेदकम्पाभिघातानां जननश्चोत्तमोत्तमः ।। ३७३.
अजितान्नारुहेद्भूमिं हिक्काश्वासादयस्तथा । जिते प्राणे स्वल्पदोषविण्मूत्रादि प्रजायते ।। ३७३.
आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् । बलवर्णप्रसादश्च सर्वदोषक्षयः फलं ।। ३७३.
जपध्यानं विनागर्भः स गर्भस्तत्समन्वितः । इन्द्रियाणां जयार्थाय स गर्भं धारयेत्परं ।। ३७३.
ज्ञानवैराग्ययुक्ताभ्यां प्राणायामवशेन च । इन्द्रियांश्च विनिर्जित्य सर्वमेव जितं भवेत् ।। ३७३.