प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्यकरो नरः। अर्घ्याद्भिस्तु शिरः प्रोक्ष्च द्वारदेशादिकं तथा
आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत्। अश्वत्थोदुम्बरवटप्लक्षाः पूर्वादिगा नगाः
ऋगिन्द्रशोभनं प्राच्यां यजुर्यमसुभद्रकम्। सामापश्च सुधन्वाख्यं सोमाथर्वसुहोत्रकम्
तोरणान्ताः पताकाश्च कुमुदाद्या घटद्वयम्। द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश्च पुष्करः
आनन्दनन्दनौ दक्षो वीरसेनः सुषेणकः। सम्भवप्रभवौ सौम्ये द्वारपांश्चैव पूजयेत्
अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत्। भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रकः
फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत्। वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम्
प्रद्युम्नेन पयस्तज्जाद् दधि नारायणाद् घृतम्। एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम्
घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम्। मण्डपष्रोक्षणायैकञ्चापरम्प्राशनाय च
स्नानाय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत्। पूज्याज्ञां श्रावयेत्तांश्च स्थातव्यं चाज्ञया हरेः
यागद्रव्यादि संरक्षय विकिरान् विकिरेत्ततः। मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेच्च तान्
ऐशान्यां दिशि तत्रस्थं स्थाप्य कुम्भञ्च वर्द्धनीम्। कुम्भे साङ्गं हरिं प्रार्च्य वर्द्धन्यामस्त्रमर्चयेत्
प्रदक्षिणं यागगृहं वर्द्धन्याच्छिन्नदारया। सिञ्चन्नयेत्ततः कुम्भं पूजयेच्च स्थिरासने
सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिर्हरिम्। वर्द्धन्यां हेमगर्भायां यजेजस्त्रञ्च वामतः
तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्च्चयेत्। स्तपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च
पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्व्रणान्। पाद्यमर्घ्यमाचमनीयं पञ्चगव्यञ्च निः क्षिपेत्
पूर्वादिकलसेग्न्यादौ पञ्चामृतजलादिकम्। दधि क्षीरं मधूष्णोदं पाद्यं स्याच्चतुरङ्गकम्
पद्मश्यामाकदूर्वाश्च विष्णुपत्नी च पाद्यकम्। तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम्
कुशाः सिद्धार्थपुष्पाणि तिला द्रव्याणि चार्हणम् लवङ्गकक्कोलयुतं दद्यादाचमनीयकम्
स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैरपि। शुद्धोदं मध्यकुम्बेन देवमूद्धर्नि विनिः क्षिपेत्
कलशान्निः सृतं तोयं कूर्चाग्रं संस्पृशेन्नरः। शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत्
परिमृज्य पटेनाह्गं सवस्त्रं पण्डलं नयेत्। तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी
प्रक्षाल्य हस्तौ रेखाश्च तिस्त्रः पूर्वाग्रगामिनीः। दक्षिणादुत्तरान्ताश्च तिस्त्रश्चैवोत्तराग्रगाः
अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत्। द्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः
पात्राण्यासादयेत् पञ्चाद्दर्भस्त्रुक्स्त्रुवकादिभिः। बाहुमात्राः परिधय इध्मव्रश्चनमेव च
प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम्। प्रस्थद्व्यं तण्डुलानां युग्मं युग्ममदोमुखम्
प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागगग्रं कुशम्। अद्भिः पूर्य्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च
प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः । प्रोक्षणीमद्भिः सम्पूर्य्य प्रार्च्य दक्षे तु विन्यसेत्
चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत्। कुशानास्तीर्य्य पूर्वादौ परिधीन् स्थापयेत्ततः
वैष्णवीकरणं कुर्य्याद् गर्भाधानादिना नरः। गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्चनिः