खरपुक्कशम्लेच्छानां मद्यपः स्वर्णहार्य्यंपि । कृमिकीटपतङ्गत्वं गुरुगस्तृणगुल्मतां ।। ३७१.
ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः । स्वर्णहारी तु कुनखी दुश्चर्म्मा गुरुतल्पगः ।। ३७१.
यो येन संस्पृशत्येषां स तल्लिह्गोऽभिजायते । अन्नहर्ता मायावी स्याम्मूको वागपहारकः ।। ३७१.
धान्यं हृत्वाऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः ।। ३७१.
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ।। ३७१.
रत्नहारी हीनजातिर्गन्धान् छुछुन्दरी शुभान् । पत्रं शाकं शिखी हृत्वा मुखरो धान्यहारकः ।। ३७१.
अजः पशुंपयः काको यानमुष्ट्रः फलं कपिः । मधु दंशः फलं गृध्रो गृहकाक उपस्करं ।। ३७१.
श्वित्री वस्त्रं सारसञ्च झिल्ली लवणहारकः । उक्त आध्यात्मिकस्तापः शत्राद्यैराधिभौतिकः ।। ३७१.
ग्रहाग्निदेवपीड़ाद्यैराधिदैविक ईरितः । त्रिधा तापं हि संसारं ज्ञानयोगाद्विनाशयेत् ३७१.
अग्निरुवाच संसारतापमुक्त्यर्थं वक्ष्याम्यऽष्टाङ्गयोगकं । ब्रह्मप्रकाशकं ज्ञानं योगस्तत्रैकचित्तता ।। ३७२.
चित्तवृत्तिनिरोधश्य जीवब्रह्मात्मनोः परः । अहिसा सत्यमस्तेयं ब्रह्मचर्य्यापरिग्रहौ ।। ३७२.
यमाः पञ्च स्मृता विप्र नियमाद्भुक्तिमुक्तिदाः । शौचं सन्तोषतपसी स्वाध्यायेश्वरपूजने ।। ३७२.
भूतापीड़ा ह्यहिंसा स्यादहिंसा धर्म्म उत्तमः । यथा गजपदेऽन्यानि पदानि पथगामिनां ।। ३७२.
एवं सर्वमहिंसायां धर्म्मार्थमभिधीयते । उद्वेगजननं हिंसा सन्तापकरणन्तथा ।। ३७२.
रुक्कृतिः शोनितकृतिः पैशुन्यकरणन्तथा । हितस्यातिनिषेधश्च मर्मोद्घाटनमेव च ।। ३७२.
सुखापह्नुतिः संरोधो बधो दशविधा च सा । यद्भूतहितमत्यन्तं वचः सत्यस्य लक्षणं ।। ३७२.
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियं । प्रियञ्च नानृतं ब्रूयादेष धर्म्मः सनातनः ।। ३७२.
मैथुनस्य परित्यागो ब्रह्मचर्य्यन्तदष्टधा । स्मरणां कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणं ।। ३७२.
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।। ३७२.
ब्रह्मचर्य्यं क्रियामूलमन्यथा विफला क्रिया । वसिष्ठञ्चन्द्रमाः शुक्रो देवाचार्य्यः पितामहः ।। ३७२.
तपोवृद्धा वयोवृद्धास्तेऽपि स्त्रीभिर्विमोहिताः । गौड़ी पैष्टी च माध्वी च विज्ञेयास्त्रिविधाः सुराः ।। ३७२.
चतुर्थी स्त्री सुरा ज्ञेया ययेदं मोहितं जगत् । माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा तु माद्याति ।। ३७२.
यस्माद्दृष्टमदा नारी तस्मात्तान्नावलोकयेत् । यद्वा तद्वाऽपरद्रव्यमपहृत्य बलान्नरः ।। ३७२.
अवश्यं याति तिर्य्यक्त्वं जगध्वा चैवाहुतं हविः । कौपीनाच्छादनं वासः कन्था शीतनिवारिणीं ।। ३७२.
पादुके चापि गृह्णीयात् कुर्य्यान्नान्यस्य संग्रहं । देहस्थितिनिमित्तस्य वस्त्रादेः स्यात्परिग्रहः ।। ३७२.
शरीरं धर्म्मसंयुक्तं रक्षणीयं प्रयत्नतः । शौचन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा ।। ३७२.
मृज्जलाभ्यां स्मृतं वाह्यं भावशुद्धेरथान्तरं । उभयेन् शुचिर्यस्तु स शुचिर्नेतरः शुचिः ।। ३७२.
यथा कथञ्चित्प्राप्त्या च सन्तोषस्तुष्टिरुच्यते । मनसश्येन्द्रियाणाञ्च ऐकाग्र्यं तप उच्यते ।। ३७२.
तज्जयः सर्वधर्म्मेभ्यः स धर्म्मः पर उच्यते । वाचिकं मन्त्रजप्यादि मानसं रागवर्ज्जनं ।। ३७२.
शारीरं देवपूजादि सर्वदन्तु त्रिधा तपः । प्रणवाद्यास्ततो वेदाः प्रणवे पर्यवस्थिताः ।। ३७२.