अग्निरुवाच उक्तानि यममार्गाणि वक्ष्येऽथ मरणे नृणां । ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।। ३७१.
शरीरमुपरुध्याऽथ कृत्स्नान्दोषान्रुणद्धि वै । छिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ।। ३७१.
शैत्यात् प्रकुपितो वायुश्छिद्रमन्विष्यते ततः । द्वे नेत्रे द्वौ तथा कर्णौ द्वौ तु नासापुटौ तथा ।। ३७१.
ऊद्ध्वन्तु सप्त च्छिद्राणि अष्टमं वदनं तथा । एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणं ।। ३७१.
अधः पायुरुपस्थञ्च अनेनाशुभकारिणां । मूर्द्धानं योगिनो भित्त्वा जीवो यात्यथ चेच्छया ।। ३७१.
अन्तकाले तु सम्प्राप्ते प्राणेऽपानमुपस्थिते । तमसा संवृते ज्ञाने संवृतेषु च मर्म्मसु ।। ३७१.
स जीवो नाभ्यधिष्ठानश्चाल्यते मातरिश्वना । बाध्यमाणश्चानयते अष्टाङ्गाः प्राणवृत्तिकाः ।। ३७१.
च्यवन्तं जायमानं वा प्रविशन्तञ्च योनिषु । प्रपश्यन्ति च तं सिद्धा देवा दिव्येन चक्षुषा ।। ३७१.
गृह्णाति तत्क्षणाद् योगे शरीरञ्चातिवाहिकम् । आकाशवायुतेजांसि विग्रहादूद्र्ध्वगामिनः ।। ३७१.
जलं मही च पञ्चत्वमापन्नः पुरुषः स्मृतः । आतिवाहिकदेहन्तु यमदूता नयन्ति तं ।। ३७१.
याम्यं मार्गं महाघोरं षड़शीतिसहस्रकम् । अन्नोदकं नीयमानो बान्धवैर्दत्तमश्नुते ।। ३७१.
यमं दृष्ट्वा यमोक्तेन चित्रगुप्तेन चेरितान् । प्राप्नोति नरकान्रौद्रान्धर्मी शुभपथैर्दिवम् ।। ३७१.
भुज्यन्ते पापिभिर्वक्ष्ये नरकांस्ताश्च यातनाः । अष्टाविंशतिरेवाधः क्षितेर्नरककोटयः ।। ३७१.
सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः । घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ।। ३७१.
अतिघोरा महाघोरा घोररूपा च पञ्चमी । षष्ठी तरलताराख्या सप्तमी च भयानका ।। ३७१.
भयोत्कटा कालरात्री महाचण्डा च चण्डया । कोलाहला प्रचण्डाख्या पद्मा नरकनायिका ।। ३७१.
पद्मावती भीषणा च भीमा चैव करालिका । विकराला महावज्रा त्रिकोणा पञ्चकोणिका ।। ३७१.
सुदीर्खघा वर्तुला सप्तभूमा चैव सुभूमिका । दीप्तमायाऽष्टाविंशतयः कोटयः पापिदुःशदाः ।। ३७१.
अष्टाविंशतिकोटीनां पञ्च पञ्च च नायकाः । रौरवाद्याः शतञ्चैकं चत्वारिंशच्चतुष्टयं ।। ३७१.
तामिश्रमन्घतामिश्रं महारौरवरौरवौ । असिपत्रं वनञ्चैव लोहभारं तथैव च ।। ३७१.
नरकं कालसूत्रञ्च महानरकमेव च । सञ्जीवनं महावीचि तपनं सम्प्रतापनं ।। ३७१.
सङ्घातञ्च सकाकोलं कुद्मलं पूतिमृत्तिकं । लोहशङ्कुमृजीषञ्च प्रधानं शाल्मलीं नदीम् ।। ३७१.
नरकान् विद्धि कोटीशनागान्वै घोरदर्शनान् । पात्यन्ते पापकर्म्माण एकैकस्मिन्बहुष्वपि ।। ३७१.
मार्जारोलूकगोमायुगृध्रादिवदनाश्च ते । तैलद्रोण्यां नरं क्षिप्त्वा ज्वालयन्ति हुताशनं ।। ३७१.
अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् । अयःपात्रेषु चैवान्यान् बकहुवह्निकणेषु च ।। ३७१.
शूलाग्रारोपिताश्चान्ये छिद्यन्ते नरकेऽपरे । ताड्यन्ते च कशाभिस्तु भोज्यन्ते चाप्ययोगुड़ान् ।। ३७१.
यमदूतैर्नराः पांशून्विष्ठारक्तकफादिकान् । तप्तं मद्यं पाययन्ति पाटयन्ति पाटयन्ति पुनर्नरान् ।। ३७१.
यन्त्रेषु पीडयन्ति स्म भक्ष्यन्ते वायसादिभिः । तैलेनोष्णेन सिच्यन्ते छिद्यन्ते नैकधा शिरः ।। ३७१.
हा तातेति क्रन्दमानाः स्वकन्नन्दन्ति कर्म्म ते । महापातकजान्घोरान्नरकान्प्राप्य गर्हितान् ।। ३७१.
कर्म्मक्षयात्प्रजायन्ते महापातकिनस्त्विह । मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ।। ३७१.