अष्टषष्टिस्तु शाखासु षष्टिश्चैकविवर्जिता । अन्तरा वै त्र्यशीतिश्च स्नायोर्नवशतानि च
त्रिंशाधिके द्वे शते तु अन्तराधौ तु सप्ततिः । ऊर्ध्वगाः षट् शतान्येव शाखास्तु कथितानि तु
पञ्च पेशीशतान्येव चत्वारिंशत्तथोर्ध्वगाः । चतुः शतं तु शाखासु अन्तराधौ च षष्ठिका
स्त्रीणां चैकाधिका वै स्याद्विंशतिश्चतुरुत्तरा । स्तनयोर्दश योनौ च त्रयोदश तथाऽऽशये
गर्भस्य च चतस्रः स्युः शिराणां च शरीरिणाम् । त्रिंशच्छतसहस्राणि तथाऽन्यानि नवैव तु
षट्पञ्चाशत्सहस्राणि रसं देहे वहन्ति ताः । केदार इव कुल्याश्च क्लेदलेपादिकं च यत्
द्वासप्ततिस्तथा 'कोट्यो व्योम्नामिह महामुने । मज्जाया मेदसश्चैव वसायाश्च तथा द्विज
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा । रक्तस्य सरसस्यात्र क्रमशोऽञ्जलयो मताः
अर्धार्धाभ्यधिकाः सर्वाः पूर्वपूर्वाञ्जलेर्मताः । अर्धाञ्जलिश्च शुक्रस्य तदर्थं च तथौजसः
रजसस्तु तथा स्त्रीणां चतस्रः कथिता बुधैः । शरीरं मलदोषादिपिण्डं ज्ञात्वाऽऽत्मनि त्यजेत्
अग्निरुवाच उक्तानि यममार्गाणि वक्ष्येऽथ मरणे नृणां । ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।। ३७१.
शरीरमुपरुध्याऽथ कृत्स्नान्दोषान्रुणद्धि वै । छिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ।। ३७१.
शैत्यात् प्रकुपितो वायुश्छिद्रमन्विष्यते ततः । द्वे नेत्रे द्वौ तथा कर्णौ द्वौ तु नासापुटौ तथा ।। ३७१.
ऊद्ध्वन्तु सप्त च्छिद्राणि अष्टमं वदनं तथा । एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणं ।। ३७१.
अधः पायुरुपस्थञ्च अनेनाशुभकारिणां । मूर्द्धानं योगिनो भित्त्वा जीवो यात्यथ चेच्छया ।। ३७१.
अन्तकाले तु सम्प्राप्ते प्राणेऽपानमुपस्थिते । तमसा संवृते ज्ञाने संवृतेषु च मर्म्मसु ।। ३७१.
स जीवो नाभ्यधिष्ठानश्चाल्यते मातरिश्वना । बाध्यमाणश्चानयते अष्टाङ्गाः प्राणवृत्तिकाः ।। ३७१.
च्यवन्तं जायमानं वा प्रविशन्तञ्च योनिषु । प्रपश्यन्ति च तं सिद्धा देवा दिव्येन चक्षुषा ।। ३७१.
गृह्णाति तत्क्षणाद् योगे शरीरञ्चातिवाहिकम् । आकाशवायुतेजांसि विग्रहादूद्र्ध्वगामिनः ।। ३७१.
जलं मही च पञ्चत्वमापन्नः पुरुषः स्मृतः । आतिवाहिकदेहन्तु यमदूता नयन्ति तं ।। ३७१.
याम्यं मार्गं महाघोरं षड़शीतिसहस्रकम् । अन्नोदकं नीयमानो बान्धवैर्दत्तमश्नुते ।। ३७१.
यमं दृष्ट्वा यमोक्तेन चित्रगुप्तेन चेरितान् । प्राप्नोति नरकान्रौद्रान्धर्मी शुभपथैर्दिवम् ।। ३७१.
भुज्यन्ते पापिभिर्वक्ष्ये नरकांस्ताश्च यातनाः । अष्टाविंशतिरेवाधः क्षितेर्नरककोटयः ।। ३७१.
सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः । घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ।। ३७१.
अतिघोरा महाघोरा घोररूपा च पञ्चमी । षष्ठी तरलताराख्या सप्तमी च भयानका ।। ३७१.
भयोत्कटा कालरात्री महाचण्डा च चण्डया । कोलाहला प्रचण्डाख्या पद्मा नरकनायिका ।। ३७१.
पद्मावती भीषणा च भीमा चैव करालिका । विकराला महावज्रा त्रिकोणा पञ्चकोणिका ।। ३७१.
सुदीर्खघा वर्तुला सप्तभूमा चैव सुभूमिका । दीप्तमायाऽष्टाविंशतयः कोटयः पापिदुःशदाः ।। ३७१.
अष्टाविंशतिकोटीनां पञ्च पञ्च च नायकाः । रौरवाद्याः शतञ्चैकं चत्वारिंशच्चतुष्टयं ।। ३७१.
तामिश्रमन्घतामिश्रं महारौरवरौरवौ । असिपत्रं वनञ्चैव लोहभारं तथैव च ।। ३७१.