रक्तमांसप्रकाराच्च भवन्त्यन्त्राणि देहिनाम् । सार्धत्रिव्यायाम (व्याम) संख्यानि तानि नृणां विनिर्दिशेत्
त्रिव्यामानि तथा स्त्रीणां प्राहुर्वेदविदो जनाः । रक्तवायुसमायोगात्कामे यस्योद्भवः स्मृतः
कफप्रसाराद्भवति हृदयं पद्मसंनिभम् । अधोमुखं तच्छुषिरं यत्र जीवो व्यवस्थितः
चैतन्यानुगता भावाः सर्वे तत्र व्यवस्थिताः । तस्य वामे यथा प्लीहा दक्षिणे च यथा यकृत्
दक्षिणे च तथा क्लोम पद्मस्यैवं प्रकीर्तितम् । श्रोतांसि यानि देहेऽस्मिन्कफरक्तवहानि च
तेषां भूतानुमानाच्च भवतीन्द्रियसंभवः । नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैतृकम्
कृष्णं च मण्डलं वातात्तथा भवति मातृकम् । पित्तात्त्वङ्मण्डलं ज्ञेयं मातापितृसमुद्भवम्
मांसासृक्कफजा जिह्वा मेदोसृक्कफमांसजौ । वृषा (ष) णौ दश प्राणस्य ज्ञेयान्यायतनानि तु
मूर्धा हृन्नाभिकण्ठाश्च जिह्वा शुक्रं च शोणितम् । गुदं वस्तिश्च गुल्फं च 'कण्डुराः षोडशेरिताः
द्वे करे द्वे च चरणे चतस्रः पृष्ठतो गले' । देहे पादादिशीर्षान्ते जालानि चैव षोडश
मांसस्नायुशिरास्थिभ्यश्चत्वारश्च पृथक्पृथक् । मणिबन्धनगुल्फेषु निबद्धानि परस्परम्
षट् कूर्चानि' स्मृतानीह हस्तयोः पादयोः पृथक् । ग्रीवायां च तथा मेद्रे कथितानि मनीषिभिः
पृष्ठवंशस्योपगताश्चतस्रो मांसरज्जवः । तावन्त्य (त्य) श्च तथा पेश्यस्तासां बन्धनकारिकाः
सीरण्यश्च तथा सप्त पञ्च मूर्धानमाश्रिताः । एकैका मेढ्रजिह्वास्ता अस्थिषष्टिशतत्रयम्
सूक्ष्मैः सह चतुः षष्टिर्दशना विंशतिर्नखाः । पाणिपादशलाकाश्च तासां स्थानचतुष्टयम्
षष्ट्यङ्गुलीनां द्वे पार्ष्णयोर्गुल्फेषु च चतुष्टयम् । चत्वार्यरन्योरस्थीनि जङ्घयोस्तद्वदेव तु
द्वे द्वे जानुकपोलोरुफलकांशसमुद्भवम् (द्भवे) । अक्षस्थानांशक श्रोणिफलके चैवमादिशेत्
भगास्तोकं तथा पृष्ठे चत्वारिंशच्च पञ्च च । ग्रीवायां च तथाऽस्थीनि जत्रुकं च तथा हनुः
तन्मूलं द्वे ललाटाक्षिगण्डनासाङ्ख्यवस्थिताः । पर्शुकास्तालुकैः सार्धमर्बुदैश्च द्विसप्ततिः
द्वे शङ्खके कपालानि चत्वार्येव शिरस्तथा । उरः सप्तदशाऽस्थीनि संधीनां द्वे शते दश
अष्टषष्टिस्तु शाखासु षष्टिश्चैकविवर्जिता । अन्तरा वै त्र्यशीतिश्च स्नायोर्नवशतानि च
त्रिंशाधिके द्वे शते तु अन्तराधौ तु सप्ततिः । ऊर्ध्वगाः षट् शतान्येव शाखास्तु कथितानि तु
पञ्च पेशीशतान्येव चत्वारिंशत्तथोर्ध्वगाः । चतुः शतं तु शाखासु अन्तराधौ च षष्ठिका
स्त्रीणां चैकाधिका वै स्याद्विंशतिश्चतुरुत्तरा । स्तनयोर्दश योनौ च त्रयोदश तथाऽऽशये
गर्भस्य च चतस्रः स्युः शिराणां च शरीरिणाम् । त्रिंशच्छतसहस्राणि तथाऽन्यानि नवैव तु
षट्पञ्चाशत्सहस्राणि रसं देहे वहन्ति ताः । केदार इव कुल्याश्च क्लेदलेपादिकं च यत्
द्वासप्ततिस्तथा 'कोट्यो व्योम्नामिह महामुने । मज्जाया मेदसश्चैव वसायाश्च तथा द्विज
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा । रक्तस्य सरसस्यात्र क्रमशोऽञ्जलयो मताः
अर्धार्धाभ्यधिकाः सर्वाः पूर्वपूर्वाञ्जलेर्मताः । अर्धाञ्जलिश्च शुक्रस्य तदर्थं च तथौजसः
रजसस्तु तथा स्त्रीणां चतस्रः कथिता बुधैः । शरीरं मलदोषादिपिण्डं ज्ञात्वाऽऽत्मनि त्यजेत्