ज्योतिषोऽपि गुणं रूपं वायुर्ग्रसति भास्करं । नष्टे ज्योतिषि वायुश्च बली दोधूयते महान् ।। ३६८.
वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः । वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज ।। ३६८.
आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं । अबिमानात्मकं खञ्च भूतादि ग्रसते महान् ।। ३६८.
भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्व्रजेत् । वायौ वायुश्च खे खञ्च अहङ्कारे लयं स च ।। ३६८.
महत्तत्त्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज । व्यक्ताऽव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः ।। ३६८.
पुमानेकाक्षरः शुद्धः सोऽप्यंशः परमात्मनः । प्रकृतिः पुरुषशचैचौ लीयेते परमात्मनि ।। ३६८.
न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः । सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ।। ३६८.
अथ सप्तत्यधिकत्रिशततमोऽध्यायः शरीरावयवाः अग्निरुवाच श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं धीः खं च भूतगम् । शब्दस्पर्शरूपरसगन्धाः खादिषु तद्गुणाः
पायूपस्थौ करौ पादौ वाग्भवेत्कर्म खं तथा । उत्सर्गानन्दकादानगति वागादिकर्म तत्
पञ्च कर्मेन्द्रियाण्यत्र पञ्च बुद्धीन्द्रियाणि च । इन्द्रियार्थाश्च पञ्चैव महाभूता मनोधिपाः
आत्माऽव्यक्तश्चतुर्विंशत्तत्त्वानि पुरुषः परः । संयुक्तश्च वियुक्तश्च यथा मत्स्योदके उभे
अव्यतमाश्रितानीह रजः सत्त्वतमांसि च । आन्तरः पुरुषो जीवः स परं ब्रह्म कारणम्
स याति परमं स्थानं यो वेत्ति पुरुषं परम् । सप्ताऽऽशयाः स्मृता देहे रुधिरस्यैक आशयः
श्लेष्मणश्चाऽऽमपित्ताभ्यां पक्वाशयस्तु पञ्चमः । वायुमूत्राशयः सप्त स्त्रीणां गर्भाशयोऽष्टमः
पित्तात्पक्वाशयोऽग्नेः स्याद्योनिर्विकशिता द्युतौ । पद्मवद्गर्भाशयः स्यात्तत्र धत्ते सरक्तकम्
शुक्रं स्वशुक्रतश्चाङ्गं कुन्तलान्यत्र कालतः । न्यस्तं शुक्रमतो योनौ नैति गर्भाशयं मुने
ऋतावपि च योनिश्चेद्वातपित्तकफावृता । भवेत्तदा विकाशित्वं नैव तस्यां प्रजायते
बुक्कात्पुक्कसकप्लीहकृतकोष्ठाङ्गहृद्व्रणाः । तण्डकश्च महाभाग निबद्धान्याशये मतः
रसस्य पच्यमानस्य साराद्भवति देहिनाम् । प्लीहा यकृच्च धर्मज्ञ रक्तफेनाच्च पुक्कसः
रक्तं पित्तं च भवति तथा तण्डकसंज्ञकः । भेदो रक्तप्रसाराच्च बुक्कायाः संभवः स्मृतः
रक्तमांसप्रकाराच्च भवन्त्यन्त्राणि देहिनाम् । सार्धत्रिव्यायाम (व्याम) संख्यानि तानि नृणां विनिर्दिशेत्
त्रिव्यामानि तथा स्त्रीणां प्राहुर्वेदविदो जनाः । रक्तवायुसमायोगात्कामे यस्योद्भवः स्मृतः
कफप्रसाराद्भवति हृदयं पद्मसंनिभम् । अधोमुखं तच्छुषिरं यत्र जीवो व्यवस्थितः
चैतन्यानुगता भावाः सर्वे तत्र व्यवस्थिताः । तस्य वामे यथा प्लीहा दक्षिणे च यथा यकृत्
दक्षिणे च तथा क्लोम पद्मस्यैवं प्रकीर्तितम् । श्रोतांसि यानि देहेऽस्मिन्कफरक्तवहानि च
तेषां भूतानुमानाच्च भवतीन्द्रियसंभवः । नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैतृकम्
कृष्णं च मण्डलं वातात्तथा भवति मातृकम् । पित्तात्त्वङ्मण्डलं ज्ञेयं मातापितृसमुद्भवम्
मांसासृक्कफजा जिह्वा मेदोसृक्कफमांसजौ । वृषा (ष) णौ दश प्राणस्य ज्ञेयान्यायतनानि तु
मूर्धा हृन्नाभिकण्ठाश्च जिह्वा शुक्रं च शोणितम् । गुदं वस्तिश्च गुल्फं च 'कण्डुराः षोडशेरिताः
द्वे करे द्वे च चरणे चतस्रः पृष्ठतो गले' । देहे पादादिशीर्षान्ते जालानि चैव षोडश