उत्तिष्ठन्ति ततो मेघा नानारूपाः सविद्युतः । शतं वंर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् ।। ३६८.
सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि शतं मरुत् । मुखनिश्वासतो विष्णोर्नाशं नयति तान् घनान् ।। ३६८.
वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रमुः । ब्रह्मरूपधऱः सिद्धैर्जलगैर्मुनिभिस्तुतः ।। ३६८.
आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यां चिन्तयन्मधुसूदनः ।। ३६८.
कल्पं शेते प्रबुद्धोऽथ ब्रह्मरूपी सृजत्यऽसौ । द्विपरार्धन्ततो व्यक्तं प्रकृतौ लीयते द्विज ।। ३६८.
स्थानात् स्थानं दशगुणमेकस्माद् गुण्यते स्थले । ततोऽष्टादशमे भागे परार्द्धमभिधीयते ।। ३६८.
परार्धं द्विगुणं यत्तु प्राकृतः प्रलयः स्मृतः । अनावृष्ट्याऽग्निसम्पर्कात् कृते संज्वलने द्विज ।। ३६८.
महदादेर्विकारस्य विशेषान्तस्य संक्षये । कृष्णेच्छाकारिते तस्मिन् सम्प्राप्ते प्रतिसञ्चरे ।। ३६८.
आपो ग्रसन्ति वै पूर्ब्वं भूमेर्गन्धादिकं गुणं । आत्मगन्धात्ततो भूमिः प्रलयत्वाय कल्पते ।। ३६८.
रसात्मिकाश्च तिष्ठन्ति ह्यापस्तासां रसो गुणः । पीयते ज्योतिषा तासु नष्टास्वग्निश्च दीप्य्ते ।। ३६८.
ज्योतिषोऽपि गुणं रूपं वायुर्ग्रसति भास्करं । नष्टे ज्योतिषि वायुश्च बली दोधूयते महान् ।। ३६८.
वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः । वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज ।। ३६८.
आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं । अबिमानात्मकं खञ्च भूतादि ग्रसते महान् ।। ३६८.
भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्व्रजेत् । वायौ वायुश्च खे खञ्च अहङ्कारे लयं स च ।। ३६८.
महत्तत्त्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज । व्यक्ताऽव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः ।। ३६८.
पुमानेकाक्षरः शुद्धः सोऽप्यंशः परमात्मनः । प्रकृतिः पुरुषशचैचौ लीयेते परमात्मनि ।। ३६८.
न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः । सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ।। ३६८.
अथ सप्तत्यधिकत्रिशततमोऽध्यायः शरीरावयवाः अग्निरुवाच श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं धीः खं च भूतगम् । शब्दस्पर्शरूपरसगन्धाः खादिषु तद्गुणाः
पायूपस्थौ करौ पादौ वाग्भवेत्कर्म खं तथा । उत्सर्गानन्दकादानगति वागादिकर्म तत्
पञ्च कर्मेन्द्रियाण्यत्र पञ्च बुद्धीन्द्रियाणि च । इन्द्रियार्थाश्च पञ्चैव महाभूता मनोधिपाः
आत्माऽव्यक्तश्चतुर्विंशत्तत्त्वानि पुरुषः परः । संयुक्तश्च वियुक्तश्च यथा मत्स्योदके उभे
अव्यतमाश्रितानीह रजः सत्त्वतमांसि च । आन्तरः पुरुषो जीवः स परं ब्रह्म कारणम्
स याति परमं स्थानं यो वेत्ति पुरुषं परम् । सप्ताऽऽशयाः स्मृता देहे रुधिरस्यैक आशयः
श्लेष्मणश्चाऽऽमपित्ताभ्यां पक्वाशयस्तु पञ्चमः । वायुमूत्राशयः सप्त स्त्रीणां गर्भाशयोऽष्टमः
पित्तात्पक्वाशयोऽग्नेः स्याद्योनिर्विकशिता द्युतौ । पद्मवद्गर्भाशयः स्यात्तत्र धत्ते सरक्तकम्
शुक्रं स्वशुक्रतश्चाङ्गं कुन्तलान्यत्र कालतः । न्यस्तं शुक्रमतो योनौ नैति गर्भाशयं मुने
ऋतावपि च योनिश्चेद्वातपित्तकफावृता । भवेत्तदा विकाशित्वं नैव तस्यां प्रजायते
बुक्कात्पुक्कसकप्लीहकृतकोष्ठाङ्गहृद्व्रणाः । तण्डकश्च महाभाग निबद्धान्याशये मतः
रसस्य पच्यमानस्य साराद्भवति देहिनाम् । प्लीहा यकृच्च धर्मज्ञ रक्तफेनाच्च पुक्कसः
रक्तं पित्तं च भवति तथा तण्डकसंज्ञकः । भेदो रक्तप्रसाराच्च बुक्कायाः संभवः स्मृतः