जाल्मोऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः । कर्म्मशूरः कर्म्मठः स्याद्भक्षको घस्मरोऽद्मरः ।। ३६७.
लोलुपो गर्घ्लो गृध्नुर्विनीतप्रश्रितौ तथा । धृष्टे धृष्णुर्वियातश्च निभृतः प्रतिबान्विते ।। ३६७.
प्रगल्भो भीरुको भीरुर्वन्दारुरभिवादके । भूष्णुर्भविष्णुर्भविता ज्ञाता विदुरविन्दुकौ ।। ३६७.
मत्तशौण्डोत्कटक्षीवाश्चण्डस्त्वत्यन्तकोपनः । देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति ।। ३६७.
यः सहाञ्चति स सध्र्यङ् स तिर्य्यङ् यस्तिरोऽञ्चति । वाचोयुक्तिः पटुर्वाग्मी वावदूकश्च वक्तरि ।। ३६७.
स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् । अपध्वस्तो धिक्कृतः स्याद् बद्धे कीलितसंयतौ ।। ३६७.
वरणः शब्दनो नान्दीवादी नान्दीकरः समाः । व्यसनार्त्तोपरक्तौ द्वौ बद्धे कीलितसंयतौ ।। ३६७.
विहस्तव्याकुलौ तुल्यौ नृशंसक्रूरघातुकाः । पापो धूर्त्तो वञ्चकः स्यान्मूर्खे वैदेहवालिशौ ।। ३६७.
कदर्य्ये कृपणक्षुद्रौ मार्गणो याचकार्थिनौ । अहङ्कारवानहंयुः स्याच्छुभंयुस्तु शुभान्वितः ।। ३६७.
कात्तं मनोरमं रुच्यं हृद्याभीष्टे ह्यभीप्सिते । असारं फल्गु शून्यं वै मुख्यवर्य्यवरेण्यकाः ।। ३६७.
श्रेयान् श्रेष्ठः पुष्कलः स्यात्प्राग्र्याग्र्यग्रीयमग्रिमं । वड्रोरु विपुलं पीनपीव्नी तु स्थूलपीवरे ।। ३६७.
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशन्तनु । मात्राकुटीलवकणा भूयिष्ठं पुरुहं पुरु ।। ३६७.
अखण्डं पूर्णसकलमुपकण्ठान्तिकाभितः । समीपे सन्निदाभ्यासौ नेदिष्ठं सुसमीपकं ।। ३६७.
सुदूरे तु दविष्ठं स्याद्वृत्तं निस्तलवर्तुले । उच्चप्रांशून्नतोदग्रा ध्रुवो नित्यः सनातनः ।। ३६७.
आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि । चञ्चलं चरलञ्चैव कठोरं जठरं दृढ़ं ।। ३६७.
प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः । एकतानोऽन्न्यवृत्तिरुच्चण्डमविलम्बितं ।। ३६७.
उच्चावचं नैकभेदं सम्बाधकलिलं तथा । तिमितं स्तिमितं क्लिन्नमभियोगस्त्वभिग्रहः ।। ३६७.
स्फतिर्वृद्धौ प्रथा ख्यातौ समाहारः समुच्चयः । अपहारस्त्वपचयो विहारस्तु परिक्रमः ।। ३६७.
प्रत्याहार उपादानं निर्द्धारोऽब्यवकर्षणं । विघ्नोऽन्तरायः प्रत्यूहः स्यादास्या त्वासना स्थितिः ।। ३६७.
सन्निधिः सन्निकर्षः स्यात्संक्रमो दुर्गसञ्चरः । उपलम्भस्त्वनुभवः प्रत्यादेशो निराकृतिः ।। ३६७.
परिरम्भः परिष्वङ्गः संश्लेष उपगूहनं । अनुमा पक्षहेत्वाद्यैडिम्बे भ्रमरविप्लवौ ।। ३६७.
असन्निकृष्टार्थज्ञानं शब्दाद्धि शाब्दमीरितं । सादृश्यदर्शनात्तुल्ये बुद्धिः स्यादुपमानकं ।। ३६७.
काय्य दृष्ट्वा विना नस्यादर्थापत्तिः परार्थधीः । प्रतियोगिन्यऽगृहीते भुवि नास्तीत्यभावकः ३६७.
अग्निरुवाच चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः । सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः ।। ३६८.
चतुर्यगसहस्त्रान्ते प्राकृतः प्राकृतो लयः लय आत्यन्तिको ज्ञानादात्मनः परमात्मनि ।। ३६८.
नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते । चतुर्युगसहस्नान्ते क्षीणप्राये महीतले ।। ३६८.
अनावृष्टिरतीवोग्रा जायते शतवार्षिकी । ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः ।। ३६८.
स्थितो जलानि पिवति भानोः सप्तसु रश्मिषु । भूपार्तालसमुद्रादितोयं नयति संक्षयं ।। ३६८.
ततस्तस्यानुभावेन तोयाहारोपबृंहिताः । त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ।। ३६८.
दहन्त्यऽशेषं त्रैलोक्यं सपातालतलं द्विज। सूर्म्मपृष्ठसमा भूः स्यात्ततः कालाग्निरुद्रकः ।। ३६८.