चिरसूता वष्कयणी धेनुः स्यान्नवसूतिका । सन्धिनी वृषभाक्रान्ता वेहद्गर्भोपघातिनी ।। ३६६.
पण्याजीवो ह्यापणिको न्यासश्चोपनिधिः पुमान् । विपणो विक्रयः सङ्ख्या सङ्ख्येये ह्यादश त्रिषु ।। ३६६.
विंशत्याद्याः सदैकत्वे सर्व्वाः संख्येयसंख्ययोः । संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।। ३६६.
पङ्क्तेः शतसहस्रादि क्रममाद्दशगुणोत्तरं । मानन्तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः ।। ३६६.
ते षोड़शाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् । सुवर्णविस्तौ हेम्नोऽक्षे कुरुविस्तस्तु तत्पले ।। ३६६.
तला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः । कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः ।। ३६६.
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु । रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ।। ३६६.
शुल्वमौदुम्बरं लौहे तीक्ष्णं कालायसायसी । क्षारं काचोऽथ चपलो रसः सूतश्च पारदे ।। ३६६.
गरलं माहिषं श्रृङ्गं त्रपुसीसकपिच्चटं । हिण्डीरोऽब्धिकफः फेणो मधूच्छिष्टन्तु सिक्थकम् ।। ३६६.
रङ्गवङ्गे पिचुस्थूलो कूलटी तु मनःशिला । यवक्षारश्च पाक्यः स्यात् त्वक्क्षीरा वंशलोचना ।। ३६६.
वृषला जघन्यजाः शूद्राश्चाण्डालान्त्याश्च शङ्कराः । कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ।। ३६६.
रङ्गाजीवश्चित्रकरस्त्वष्टा तक्षा च वर्धकिः । नाडिन्धमः स्वर्णकारो नापितान्तावसायिनः ।। ३६६.
जावालः स्यादजाजीवो देवाजीवस्तु देवलः । जायाजीवास्तु शैलूषा भृतको भृतिभुक्तथा ।। ३६६.
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । विहीनोपसदो जाल्मो भृत्ये दासेरचेटकाः ।। ३६६.
पटुस्तु पेशलो दक्षे मृगयुर्लुब्धकः स्मृतः । चण्डालस्तु दिवाकीर्त्तिः पुस्तं लेप्यादिकर्म्मणि ।। ३६६.
पञ्चालिका पुत्रिका स्याद्वर्करस्तरुणः पशुः । मञ्जूषा पेटकः पेडा तुल्यसाधारणौ समौ ३६६.
अग्निरुवाच सामान्यान्यऽथ वक्ष्यामि नामलिङ्गानि तच्छृणु । सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः ।। ३६७.
प्रवीणनिपुणाभिज्ञविज्ञविज्ञनिष्णातशिक्षिताः । स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ।। ३६७.
कृती कृतज्ञः कुशल आसक्तोद्युक्त उत्सुकः । इभ्य आढ्यः परिवृढो ह्यधिभूर्नायकोऽधिपः ।। ३६७.
लक्ष्मीवान् लक्ष्मणः श्रीलः स्वतन्त्रः स्वैर्य्यऽपावृतः । खलपूः स्याद्धहुकरो दीर्घसूत्रश्चिरक्रियः ।। ३६७.
जाल्मोऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः । कर्म्मशूरः कर्म्मठः स्याद्भक्षको घस्मरोऽद्मरः ।। ३६७.
लोलुपो गर्घ्लो गृध्नुर्विनीतप्रश्रितौ तथा । धृष्टे धृष्णुर्वियातश्च निभृतः प्रतिबान्विते ।। ३६७.
प्रगल्भो भीरुको भीरुर्वन्दारुरभिवादके । भूष्णुर्भविष्णुर्भविता ज्ञाता विदुरविन्दुकौ ।। ३६७.
मत्तशौण्डोत्कटक्षीवाश्चण्डस्त्वत्यन्तकोपनः । देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति ।। ३६७.
यः सहाञ्चति स सध्र्यङ् स तिर्य्यङ् यस्तिरोऽञ्चति । वाचोयुक्तिः पटुर्वाग्मी वावदूकश्च वक्तरि ।। ३६७.
स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् । अपध्वस्तो धिक्कृतः स्याद् बद्धे कीलितसंयतौ ।। ३६७.
वरणः शब्दनो नान्दीवादी नान्दीकरः समाः । व्यसनार्त्तोपरक्तौ द्वौ बद्धे कीलितसंयतौ ।। ३६७.
विहस्तव्याकुलौ तुल्यौ नृशंसक्रूरघातुकाः । पापो धूर्त्तो वञ्चकः स्यान्मूर्खे वैदेहवालिशौ ।। ३६७.
कदर्य्ये कृपणक्षुद्रौ मार्गणो याचकार्थिनौ । अहङ्कारवानहंयुः स्याच्छुभंयुस्तु शुभान्वितः ।। ३६७.
कात्तं मनोरमं रुच्यं हृद्याभीष्टे ह्यभीप्सिते । असारं फल्गु शून्यं वै मुख्यवर्य्यवरेण्यकाः ।। ३६७.