कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः। मध्ये ततश्च वायव्यादीशान्ता गुरुपङ्क्तिकाः
गणः सरस्वती पूज्या नारदो नलकूबरः। गुरुर्गरुपादुका च परो गुरुश्च पादुका
पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः। लक्ष्मीः सरस्वती प्रीतिः कीर्त्तिः शान्तिश्च कान्तिका
पुष्टिस्तुष्टिर्म्महेन्द्राद्या मध्ये चावाहितो हरिः । धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितोऽच्युतः
ओं अभिमुखो भवेत् प्रार्थ्य प्राच्यां सन्निहितो भव। विन्यस्यार्घ्यादिकं दत्त्वा गन्धाद्यैर्मूलतो यजेत्
ओं भीषय भीषय हृत् शिरस्त्रासय वै पुनः। मर्द्दय मर्द्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं
रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय नमस्ततः। ओं ह्रूं फट् अस्त्राय नमो मूलबीजेन चाङ्गकम्
पूर्व्वदक्षाप्यसौम्येषु मूर्त्त्यावरणमर्च्चयेत्। वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः
अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्त्तयो हरेः। शङ्खचक्रगदापद्ममग्न्यादौ पूर्व्वकादिकम्
शार्ङ्गञ्च मुषलं खङ्गं वनमालाञ्च तद्बहिः। इन्द्राद्याश्च तथानन्तो नैर्ऋत्यां वरुणस्ततः
ब्रह्नेन्द्रेशानयोर्मध्ये अस्त्रावरणकं बहिः। ऐरावतस्ततश्छागो महिषो वानरो झषः
मृगः शशोऽथ वृषभः कूर्म्मो हंसस्ततो बहिः। पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयम्
पूर्व्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं बहिः। विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत्
विश्वाय विश्वक्सेनात्मने ईशानके यजेत्। देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत्
संवत्सरकृतार्चायाः सम्पूर्णफलदायिने। पवित्रारोहणायेदं कौतुकं धारय ओं नमः
उपवासादिनियमं कुर्याद्वै देवसन्निधौ। उपवासादिनियतो देवं सन्तोषयाम्यहम्
कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा। अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम्
यजमानो ह्यशक्तश्चेत् कुर्य्यान्नक्तादिकं व्रती। हुत्वा विसर्जयेत् स्तुत्वा श्रीकरन्नित्यपूजनम्
अग्निरुवाच विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत्। नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने
ऋग्यजुः सामरूपाय शब्ददेहाय विष्णवे। विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत्
प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्यकरो नरः। अर्घ्याद्भिस्तु शिरः प्रोक्ष्च द्वारदेशादिकं तथा
आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत्। अश्वत्थोदुम्बरवटप्लक्षाः पूर्वादिगा नगाः
ऋगिन्द्रशोभनं प्राच्यां यजुर्यमसुभद्रकम्। सामापश्च सुधन्वाख्यं सोमाथर्वसुहोत्रकम्
तोरणान्ताः पताकाश्च कुमुदाद्या घटद्वयम्। द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश्च पुष्करः
आनन्दनन्दनौ दक्षो वीरसेनः सुषेणकः। सम्भवप्रभवौ सौम्ये द्वारपांश्चैव पूजयेत्
अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत्। भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रकः
फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत्। वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम्
प्रद्युम्नेन पयस्तज्जाद् दधि नारायणाद् घृतम्। एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम्
घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम्। मण्डपष्रोक्षणायैकञ्चापरम्प्राशनाय च
स्नानाय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत्। पूज्याज्ञां श्रावयेत्तांश्च स्थातव्यं चाज्ञया हरेः