पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरं । सेनामुखं गुल्मगणै वाहिनी पृतना चमूः ।। ३६६.
अनीकिनी दशानीकिन्योऽक्षोहिण्यो गजीदिभिः । धनुः कोदण्डइष्वासौ कोटिरस्याटनी स्मृता ।। ३६६.
नस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः । पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ।। ३६६.
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः। असिर्ऋष्टिश्च निस्त्रिशः करवालः कृपाणवत् ।। ३६६.
सरुः खङ्गस्य मुष्टौ स्यादीली तु करपालिका । द्वयोः कुठारः सुधितिः छुरिका चासिपुत्रिका ।। ३६६.
प्रासस्तु कुन्तो विज्ञेयः सर्वला तोमरोऽस्त्रियां । वैतालिका बोधकरा मागधा वन्दिनस्तुतौ ।। ३६६.
संशप्तकास्तु समयात्सङ्ग्ग्रामादनिवर्त्तिनः । पताका वैजयन्ती स्यात् केतनं ध्वजमस्त्रियां ।। ३६६.
अहं पूर्वमहं पूर्व्वमित्यहंपूर्व्विका स्त्रियां । अहमहमिका सा स्याद्योऽहङ्कारः परस्परम् ।। ३६६.
शक्तिः पराक्रमः प्राणः शौर्य्यं स्थानसहोबलं । मूर्छा तु कश्मलं मोहोऽप्यवमर्द्दस्तु पीड़़नं ।। ३६६.
अभ्यवस्कन्दनन्त्वभ्यासादनं विजयो जयः । निर्वासनं संज्ञपनं सारणं प्रतिघातनं ।। ३६६.
स्यात्पञ्चता कालधर्भो दिष्टान्तः प्रलयोऽत्य्यः । विशो भूमिस्पृशो वैश्या वृत्तिर्वर्तनजीवने ।। ३६६.
कृष्यादिवृत्तयो ज्ञेयाः कुसीदं वृद्धिजीविका । उद्धारोऽर्थप्रयोगः स्यात्कणिशं सस्यमञ्जरी ।। ३६६.
सिंशारुः सस्यशूकं स्यात् स्तम्बो गुत्सस्तृणादिनः । धान्यं व्रीहिः स्तम्बकरिः कड़ङ्गरो वुषं स्मृतं ।। ३६६.
माषादयः शमीधान्ये शुकधान्ये यवादयः । तृणधान्यानि नीवाराः शूर्पं प्रस्फोटनं स्मृतं ।। ३६६.
स्यूतप्रसेवौ कण्डोलपिटौ कटकिनिञ्जकौ । समानौ रसवत्यान्तु पाकस्थानमहानसे ।। ३६६.
पौरोगवस्तदध्यक्षः सूपकारास्तु वल्लवाः । आरालिका आन्धसिकाः सूदा औदनिका गुणाः ।। ३६६.
क्लीवेऽग्वरीषं भ्राष्टो ना कर्कर्य्यालुर्गलन्तिका । आलिञ्जरः स्यान्मणिकं सुषवी कृष्णजीरके ।। ३६६.
आरनालस्तु कुल्माषं वाह्लीकं हिङ्गु रामठं । निशा हरिद्रा पीता स्त्री खण्डे मत्स्यण्डिफाणिते ।। ३६६.
कूर्चिका क्षीरविकृतिः स्निग्धं मसृणचिक्कणं । पृथुकः स्याच्चिपिटको धाना भ्रष्टयवास्त्रियः ।। ३६६.
जेमनं लेप आहारो माहेयी सौरभी च गौः । युगादीनाञ्च वोढारो युग्यप्रासङ्ग्यशाटकाः ।। ३६६.
चिरसूता वष्कयणी धेनुः स्यान्नवसूतिका । सन्धिनी वृषभाक्रान्ता वेहद्गर्भोपघातिनी ।। ३६६.
पण्याजीवो ह्यापणिको न्यासश्चोपनिधिः पुमान् । विपणो विक्रयः सङ्ख्या सङ्ख्येये ह्यादश त्रिषु ।। ३६६.
विंशत्याद्याः सदैकत्वे सर्व्वाः संख्येयसंख्ययोः । संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।। ३६६.
पङ्क्तेः शतसहस्रादि क्रममाद्दशगुणोत्तरं । मानन्तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः ।। ३६६.
ते षोड़शाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् । सुवर्णविस्तौ हेम्नोऽक्षे कुरुविस्तस्तु तत्पले ।। ३६६.
तला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः । कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः ।। ३६६.
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु । रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ।। ३६६.
शुल्वमौदुम्बरं लौहे तीक्ष्णं कालायसायसी । क्षारं काचोऽथ चपलो रसः सूतश्च पारदे ।। ३६६.
गरलं माहिषं श्रृङ्गं त्रपुसीसकपिच्चटं । हिण्डीरोऽब्धिकफः फेणो मधूच्छिष्टन्तु सिक्थकम् ।। ३६६.
रङ्गवङ्गे पिचुस्थूलो कूलटी तु मनःशिला । यवक्षारश्च पाक्यः स्यात् त्वक्क्षीरा वंशलोचना ।। ३६६.