चषालो यूपकटकः समे स्थण्डिलचत्वरे । आमिक्षा सा श्रृतोष्णे या क्षईरे स्याद्दधियोगतः ।। ३६५.
पृषदाज्यं सदध्याज्ये परमान्नन्तु पायसम् । उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ।। ३६५.
परम्पराकं समनं प्रोक्षणञ्च बवार्थकम् । पूजा नमस्याऽपचितिः सपर्य्यार्चार्हणाः समाः ।। ३६५.
वरिवस्या तु शुश्रूषा परिचर्य्याप्युपासनम् । नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ।। ३६५.
मुख्यः स्यात् प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः । कल्पे विधिक्रमौ ज्ञेयौ विवेकः पृथगात्मता ।। ३६५.
संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः । भिक्षुः परिव्राट् कर्मन्दो पाराशर्य्यपि मस्करी ।। ३६५.
ऋषयः सत्यवचसः स्नातकश्चाप्लुतब्रती । ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ।। ३६५.
शरीरसाधनापेक्षं नित्यं यत् कर्म्म तद्यमः । नियमस्तु स यत् कर्म्मानित्यमागन्तुसाधनम् ३६५.
अग्निरुवाच मूर्द्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । राजा तु प्रणताशेपसामन्तः । स्यादधीश्वरः ।। ३६६.
चक्रवर्त्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः । मन्त्री धीसचिवोऽमात्यो महामात्राः प्रधानकाः ।। ३६६.
द्रष्टरि व्यवहाराणां प्राड्विवाकाऽक्षदर्शकौ । भौरिकः कनकाध्यक्षोऽथाद्यक्षाधिकृतौ समौ ।। ३६६.
अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः । सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ।। ३६६.
षण्डो वर्षवरस्तुल्याः सेवकार्थ्यनुजीविनः । विषयानन्तरो राजा शत्रुमित्रमतः परं ।। ३६६.
उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः । चरः स्पशः स्यात्प्रणिधिरुत्तरः काल आयतिः ।। ३६६.
तत्कालस्तु तदात्वं स्यादुदर्कः फलमुत्तरं । अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ।। ३६६.
भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका । प्रभिन्नो गर्जितो मत्तो वमथुः करशीकरः ।। ३६६.
स्त्रियां श्रृणिस्त्वङ्कुशोऽस्त्री परिस्तोमः कुथो द्वयोः । कर्णीरथः प्रवहणं दोला प्रेङ्खादिका स्त्रियां ।। ३६६.
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः । भटा योधाश्च योद्धारः कञ्चुको वारणोऽस्त्रियां ।। ३६६.
शीर्षण्यञ्च शिरस्त्रेऽथ तनुत्रं वर्म्म दंशनं । आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ।। ३६६.
व्यूहस्तु बलविन्यासश्चक्रञ्चानीकमस्त्रियां । एकेभैकरथा त्र्यश्वाः पत्तिः वञ्चपदातिकाः ।। ३६६.
पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरं । सेनामुखं गुल्मगणै वाहिनी पृतना चमूः ।। ३६६.
अनीकिनी दशानीकिन्योऽक्षोहिण्यो गजीदिभिः । धनुः कोदण्डइष्वासौ कोटिरस्याटनी स्मृता ।। ३६६.
नस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः । पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ।। ३६६.
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः। असिर्ऋष्टिश्च निस्त्रिशः करवालः कृपाणवत् ।। ३६६.
सरुः खङ्गस्य मुष्टौ स्यादीली तु करपालिका । द्वयोः कुठारः सुधितिः छुरिका चासिपुत्रिका ।। ३६६.
प्रासस्तु कुन्तो विज्ञेयः सर्वला तोमरोऽस्त्रियां । वैतालिका बोधकरा मागधा वन्दिनस्तुतौ ।। ३६६.
संशप्तकास्तु समयात्सङ्ग्ग्रामादनिवर्त्तिनः । पताका वैजयन्ती स्यात् केतनं ध्वजमस्त्रियां ।। ३६६.
अहं पूर्वमहं पूर्व्वमित्यहंपूर्व्विका स्त्रियां । अहमहमिका सा स्याद्योऽहङ्कारः परस्परम् ।। ३६६.
शक्तिः पराक्रमः प्राणः शौर्य्यं स्थानसहोबलं । मूर्छा तु कश्मलं मोहोऽप्यवमर्द्दस्तु पीड़़नं ।। ३६६.
अभ्यवस्कन्दनन्त्वभ्यासादनं विजयो जयः । निर्वासनं संज्ञपनं सारणं प्रतिघातनं ।। ३६६.