अग्निरुवाच नृब्रह्मक्षत्रविट्शूद्रवर्गान्वक्ष्येषऽय नामतः । नरः पञ्चजना मर्त्त्या यद्योषाऽवला वधूः ।। ३६४.
कान्तार्थिनी तु या याति सङ्केतं साऽभिसारिका । कुलटा पुंश्चल्यसती नग्निका स्त्री च कोटवी ।। ३६४.
कात्यायन्यर्द्धवृद्धा या सैरिन्ध्री परवेश्मगा । असिक्नी स्यादवृद्धा या मलिनी तु रजस्वला ।। ३६४.
वारस्त्री गणिका वेश्या भ्रातृजायास्तु यातरः । ननान्दा तु स्वसा पत्युः सपिण्डास्तु सनाभयः ।। ३६४.
समानोदर्य्यसोदर्य्यसगर्भसहजास्समाः । यगोत्रबन्धवज्ञातिबन्धुस्वस्वजनाः समाः ।। ३६४.
दम्पती जम्पती भार्य्यापती जायापती च तौ । गर्भाशयो जरायुः स्यादुल्वञ्च कललोऽस्त्रियां ।। ३६४.
गर्भो भ्रुण इमौ तुल्यौ क्लीवं शण्डो नपुंसकम् । स्यादुत्तानश्यो डिम्भो बालो माणवकः स्मृतः ।। ३६४.
पिचिण्डिलो वृहत्कुक्षिरवभ्रटो नतनासिके । विकलाङ्गस्तु पोगण्ड आरोग्यं स्यादनामयम् ।। ३६४.
स्यादेडे वधिरः कुब्जे गडुलः कुकरे कुनिः । क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ।। ३६४.
स्त्री क्षुत्क्षुतं क्षयं पुंसि कासस्तु क्षवथुः पुमान् । शोथस्तु श्वयथुः शोफः पादस्फोटो विपादिका ।। ३६४.१೦ ।। किलासं सिध्नकच्छान्तु पाम पामा विचर्च्चिका । कोठो मण्डलकं कुष्ठं श्वित्रो दुर्न्नामकार्शसी ।। ३६४.
अनाहस्तु विबन्धः स्याद्ग्रहणी रुक्प्रवाहिका । वीजवीर्य्येन्द्रियं शुक्रं पललं क्रव्यमामिषं ।। ३६४.
वुक्काऽग्रमांसं हृदयं हृन्मेदस्तु वपा वसा । पश्चाद्ग्रीवा शिरा मन्या नाडी तु धमनिः शिरा ।। ३६४.
तिलकं क्लोम मस्तिष्कं दूषिका नेत्रयोर्मलम् । अन्त्रं पुरी तद्गुल्मस्तु प्लीहा पुंस्यऽथ वस्नसा ।। ३६४.
स्नायुः स्रियां कालखण्डयकृती तु ऽसमे इमे । स्यात् कर्पूरः कपालोऽस्त्री कीकसङ्कुल्यमस्थि च ।। ३६४.
स्याच्छरीरास्थिन कङ्कालः पृष्ठास्थिन तु कशेरुका । शिरोऽल्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ।। ३६४.
अङ्गं प्रतीकोऽवयवः शरीरं वर्ष्म विग्रहः । कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ।। ३६४.
पश्चान्नितम्वः स्त्रीकट्याः क्लीवे तु जघनं पुरः । कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे ।। ३६४.
स्त्रियां स्पिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः । भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ।। ३६४.
पिचिण्डकुक्षी जठरोदरं तुन्दं कुचौ स्तनौ । चूचुकन्तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ।। ३६४.२೦ ।। स्कन्धो भुजशिरोंऽशोऽस्त्री सन्धी तस्यैव जत्रुणी । पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियां ।। ३६४.
प्रादेशतालगोकर्णास्तर्जन्यादियुते तते । अङ्गुष्ठे सकनिष्ठो स्याद्वितस्तिर्द्वादशाङ्गुलः ।। ३६४.
पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ । बद्धमुष्टिकरो रत्निररत्निः स कनिष्ठवान् ।। ३६४.
कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका । अधः स्याच्चिवुकञ्चौष्ठादथ गण्डौ गलो हनुः ।। ३६४.
अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने । चिकुरः कुन्तलो बालः प्रतिकर्म प्रसाधनम् ।। ३६४.
आकल्पवेशौ नेपथ्यं प्रत्यक्षं खेलयोगजम् । चूड़ामणिः शिरोरत्नं तरलो हारमध्यगः ।। ३६४.
कर्णिका तालपत्रं स्याल्लम्बनं स्याल्ललन्तिका । मञ्जीरो नूपुरं पादे किङ्गिणी क्षुद्रघण्टिका ।। ३६४.
दैर्घ्यमायाम आरोहः परिणाहो विशालता । पटच्चरं जीर्णवस्त्रं संव्यानञ्चोत्तरीयकम् ।। ३६४.
रचना स्यात् परिस्पन्द आभोगः परिपूर्णता । समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः ।। ३६४.
अग्निरुवाच वंशोऽन्ववायो गोत्रं स्यात् कुलान्यभिजनान्वयौ । मन्त्रव्याख्याकृदाचार्य्य आदेष्ट त्वध्वरे व्रती ।। ३६५.
यष्टा च यजमानः स्यात् ज्ञात्वारम्भ उपक्रमः । सतीर्थ्याश्चैकगुरवः सभ्याः सामाजिकास्तथा ।। ३६५.
सभासदः सभास्तारा ऋत्विजो याजकाश्च ते । अद्वर्थूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ।। ३६५.