कालानुसार्य्यवृद्धाश्मपुष्पशीतशिवानि तु । शिवा तामलकी चाथ हनुर्हट्टविलासिनी ।। ३६३.
ग्रन्थिपर्णं शुकं वर्हि वला तु त्रिपुटा त्रुटिः । शिवा तामलकी चाथ हनुर्हट्टविलासिनी ।। ३६३.
कुटं नटं दशपुरं वानेयं परिपेलवम् । तपस्विनी जटामांसी पृक्का देवी लता लक्षू ।। ३६३.
कर्चुरको द्राविड़को गन्धमूली शठी स्मृता । स्यादृक्षगन्धा छगलान्त्रा वेगी वृद्धदारकः ।। ३६३.
तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्यऽपि । चाङ्गेरी चुक्रिकाम्बष्ठा स्वर्णक्षीरी हिमावती ।। ३६३.
सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि । जीवन्ती जीवनी जीवा भूमिनिम्बः किरातकः ।। ३६३.
कूर्चशीर्षो मधुकरश्चन्द्रः कपिवृकस्तथा । दद्रुघ्नः स्यादेड़गजो वर्षाभूः शोथहारिणी ।। ३६३.
वाराही वदरा गृष्टिः काकमाची तु वायसी । शतपुष्पा सिचच्छत्राऽतिच्छत्रा मधुरा मिसिः ।। ३६३.
अवाक्पुष्पी कारवी च सरणा तु प्रसारणी । कटम्भरी भद्रवला कर्व्वूरश्च शटी ह्यथ ।। ३६३.
पटोलः कुलकस्तिक्तः कारवेल्लः कटिल्लकः । कुष्माण्डकस्तु कर्कारुरिर्वारुः कर्कटी स्त्रियौ ।। ३६३.
इक्ष्वाकुः कटुतुम्बी स्याद्विशाला त्विन्द्रावरुणी । अर्शोघ्नः शूरणः कन्दो मुस्तकः कुरुविन्दकः ।। ३६३.
वंशे त्वक्सारकर्म्मारवेणुमस्करतेजनाः । छत्रातिच्छत्रपालघ्नी मालातृणकभूस्तृणे ।। ३६३.
तृणराजाह्वयस्तालो घोण्टा क्रमुकपुगकौ । शार्दूलद्वीपिनौ व्याघ्ने हर्य्यक्षः केशरी हरिः ।। ३६३.
कोलः पोत्री वराहः स्यात् कोक ईहामृगो वृकः । लूतोर्णनाभौ तु समौ तन्तुवायश्च मर्कटे ।। ३६३.
वृश्चिकः शूककीटः स्यात्सारङ्गस्तोककौ समौ । कृकवाकुस्ताम्रचूड़ः पिकः कोकिल इत्यपि ।। ३६३.
काके तु करटारिष्टौ वकः कह्व उदाहृतः । कोकश्चक्रश्चक्रवाको कादम्बः कलहंसकः ।। ३६३.
पतङ्गिका पुत्तिका स्यात्सरघा मधुमक्षइका । द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमराऽलयः ।। ३६३.
केकी शिख्यस्य वाक्केका शकुन्तिशकुनिद्विजाः । स्त्री पक्षतिः पक्षमूलञ्चञ्चूस्तोटिरुभे स्त्रियौ ।। ३६३.
गतिरुडडीनसण्डीनौ कुलायो नीड़मस्त्रियां । पेशी कोषो द्विहीनेऽण्डं पृथुकः शावकः शिशु ।। ३६३.
पोतः पाकोऽर्भको डिम्भः सन्दोहव्यूहको गणः । स्तोमौवनिकरव्राता निकुरम्बं कदम्बकं ३६३.
अग्निरुवाच नृब्रह्मक्षत्रविट्शूद्रवर्गान्वक्ष्येषऽय नामतः । नरः पञ्चजना मर्त्त्या यद्योषाऽवला वधूः ।। ३६४.
कान्तार्थिनी तु या याति सङ्केतं साऽभिसारिका । कुलटा पुंश्चल्यसती नग्निका स्त्री च कोटवी ।। ३६४.
कात्यायन्यर्द्धवृद्धा या सैरिन्ध्री परवेश्मगा । असिक्नी स्यादवृद्धा या मलिनी तु रजस्वला ।। ३६४.
वारस्त्री गणिका वेश्या भ्रातृजायास्तु यातरः । ननान्दा तु स्वसा पत्युः सपिण्डास्तु सनाभयः ।। ३६४.
समानोदर्य्यसोदर्य्यसगर्भसहजास्समाः । यगोत्रबन्धवज्ञातिबन्धुस्वस्वजनाः समाः ।। ३६४.
दम्पती जम्पती भार्य्यापती जायापती च तौ । गर्भाशयो जरायुः स्यादुल्वञ्च कललोऽस्त्रियां ।। ३६४.
गर्भो भ्रुण इमौ तुल्यौ क्लीवं शण्डो नपुंसकम् । स्यादुत्तानश्यो डिम्भो बालो माणवकः स्मृतः ।। ३६४.
पिचिण्डिलो वृहत्कुक्षिरवभ्रटो नतनासिके । विकलाङ्गस्तु पोगण्ड आरोग्यं स्यादनामयम् ।। ३६४.
स्यादेडे वधिरः कुब्जे गडुलः कुकरे कुनिः । क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ।। ३६४.
स्त्री क्षुत्क्षुतं क्षयं पुंसि कासस्तु क्षवथुः पुमान् । शोथस्तु श्वयथुः शोफः पादस्फोटो विपादिका ।। ३६४.१೦ ।। किलासं सिध्नकच्छान्तु पाम पामा विचर्च्चिका । कोठो मण्डलकं कुष्ठं श्वित्रो दुर्न्नामकार्शसी ।। ३६४.