ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयेत्। ओं ह्रौं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः। ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः
द्विरुद्घातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम्। स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः
ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः। एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम्। नासापुटशिखान्तस्थमाकाशामुपसंहरेत्
शोषणाद्यैर्द्देशुद्धिं कुर्यादेवं क्रमात्तः। शुष्कं कलेवरं ध्यायेत् पादाद्यञ्च शिखान्तकम्
यं बीजेन वं बीजेन ज्वालामालासमायुतम् । देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम्
बिन्दुन्ध्यात्वा चामृतस्य तेन भस्म कलेवरम्। सम्प्लावयेल्लमित्यस्मात् देहं सम्पाद्य दिव्यकम्
न्यासं कृत्वा करे देहे मानसं यागमाचरेत्। विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभि
मूलमन्त्रेण देवेशम्प्रार्च्चयेद्भुक्तिमुक्तिदम्। स्वागतं देवदेवेश सन्निधौ भव केशव
गृहाण मानसीं पूजां यथार्थं परिभाविताम्। आधारशक्तिः कूर्माथ पूज्योनन्तो मही ततः
मध्येग्न्यादौ च धर्माद्या अधर्मादीन्द्रमुख्यगम् । सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके
कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः। मध्ये ततश्च वायव्यादीशान्ता गुरुपङ्क्तिकाः
गणः सरस्वती पूज्या नारदो नलकूबरः। गुरुर्गरुपादुका च परो गुरुश्च पादुका
पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः। लक्ष्मीः सरस्वती प्रीतिः कीर्त्तिः शान्तिश्च कान्तिका
पुष्टिस्तुष्टिर्म्महेन्द्राद्या मध्ये चावाहितो हरिः । धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितोऽच्युतः
ओं अभिमुखो भवेत् प्रार्थ्य प्राच्यां सन्निहितो भव। विन्यस्यार्घ्यादिकं दत्त्वा गन्धाद्यैर्मूलतो यजेत्
ओं भीषय भीषय हृत् शिरस्त्रासय वै पुनः। मर्द्दय मर्द्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं
रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय नमस्ततः। ओं ह्रूं फट् अस्त्राय नमो मूलबीजेन चाङ्गकम्
पूर्व्वदक्षाप्यसौम्येषु मूर्त्त्यावरणमर्च्चयेत्। वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः
अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्त्तयो हरेः। शङ्खचक्रगदापद्ममग्न्यादौ पूर्व्वकादिकम्
शार्ङ्गञ्च मुषलं खङ्गं वनमालाञ्च तद्बहिः। इन्द्राद्याश्च तथानन्तो नैर्ऋत्यां वरुणस्ततः
ब्रह्नेन्द्रेशानयोर्मध्ये अस्त्रावरणकं बहिः। ऐरावतस्ततश्छागो महिषो वानरो झषः
मृगः शशोऽथ वृषभः कूर्म्मो हंसस्ततो बहिः। पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयम्
पूर्व्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं बहिः। विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत्
विश्वाय विश्वक्सेनात्मने ईशानके यजेत्। देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत्
संवत्सरकृतार्चायाः सम्पूर्णफलदायिने। पवित्रारोहणायेदं कौतुकं धारय ओं नमः
उपवासादिनियमं कुर्याद्वै देवसन्निधौ। उपवासादिनियतो देवं सन्तोषयाम्यहम्
कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा। अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम्
यजमानो ह्यशक्तश्चेत् कुर्य्यान्नक्तादिकं व्रती। हुत्वा विसर्जयेत् स्तुत्वा श्रीकरन्नित्यपूजनम्
अग्निरुवाच विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत्। नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने
ऋग्यजुः सामरूपाय शब्ददेहाय विष्णवे। विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत्