रोही रोहितकः प्लीहशत्रुर्दाड़िमपुष्पकः । गायत्री बालतनयः खदिरो दन्तधावनः ।। ३६३.
अरिमेदो विट्खदिरे कदरः खदिरे सिते । पञ्चाङ्गुलो वर्द्धमानस्चञ्चुर्गन्धर्वहस्तकः ।। ३६३.
पिण्डीतको मरुवकः पीतदारु च दारु च । देवादारुः पूतिकाष्ठं श्यामा तु महीलाह्वया ।। ३६३.
लता गोवन्दनी गुन्दा प्रियङ्गुः फलिनी फली । मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ।। ३६३.
श्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः । पीतद्रुः सरलश्चाथ निचुलोऽम्बुज इज्जलः ।। ३६३.
काकोडुम्बरिका फल्गुररिष्टः पिचुमर्दकः । सर्व्वतोभद्रको निम्बे शिरीषस्तु कपीतनः ।। ३६३.
वकुलो वञ्जुलः प्रोक्तः पिच्छिलाऽगुरुशिंशपाः । जया जयन्ती तर्कारी कणिका गणिकारिका ।। ३६३.
श्रीपर्णमग्निमन्धः स्याद्वत्सको गिरिमल्लिका । कालस्कन्धस्तमालः स्यात् तण्डुलीयोऽल्पमारिषः ।। ३६३.
सिन्धुवारस्तु निर्गुण्डी सैवास्फोता वनोद्भवा । गणिका यूथिकाऽम्बष्ठा सप्तला नवमालिका ।। ३६३.
अतिमुक्तः पुण्ड्रकः स्यात्कुमारी तरणिः सहा । तत्र शोणे कुरुवकस्तत्र पीते कुरुष्टकः ।। ३६३.
नीला झिण्टी द्वयोर्वाणा भ्क्तिण्टी सैरीयकस्तथा । तस्मिन् रक्ते कुरुवकः पीते सहचरी द्वयोः ।। ३६३.
धुस्तूरः कितवो धूर्त्तो रुचको मातुलङ्गके । समीरणो मरुवकः प्रस्थपुष्पः फणिज्भ्क्तकः ।। ३६३.
कुठेरकस्तु पर्णासेऽथास्फोतो वसुकार्कके । शिवमल्ली पाशुपतो वृन्दा वृक्षादनी तथा ।। ३६३.
जीवन्तिका वृक्षरुहा गुडूची तन्त्रिकाऽमृता । सोमवल्ली मधुपर्णी मूर्वा तु मोरटी तथा ।। ३६३.
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । पाठाऽम्बष्ठा विद्धकर्णी प्राचीना वनतिक्तिका ।। ३६३.
कटुः कटुम्भरा चाथ चक्राङ्गी शकुलादनी । आत्मगुप्ता प्रावृषायी कपिकच्छुश्च मर्कटी ।। ३६३.
अपामार्गः शैखरिकः प्र्त्यक्पर्णी मयूरकः । फञ्चिका ब्राह्मणो भार्गी द्रवन्ती शम्भरी वृषा ।। ३६३.
मण्डूकपर्णी भण्डीरी समङ्गा कालमेषिका । रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा ।। ३६३.
पृश्निपर्णी पृथक्पर्णी कलशिर्धावनिर्गुहा । निदीग्धिका स्पृशी व्याघ्री क्षुद्रा दुस्पर्श्या सह ।। ३६३.
अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका । कालमेषी कृष्णाफ्ला वाकुची पूतिफल्यऽपि ।। ३६३.
कणोषणोपकुल्या स्याच्छ्रेयसी गजपिप्पली । चव्यन्तु चविका काकचिञ्ची गुञ्चे तु कृष्णला ।। ३६३.
विश्वा विषा प्रतिविषा वनश्रृङ्गाटगोक्षुरौ । नारायणी शतमूली कालेयकहरिद्रवः ।। ३६३.
दार्वी पचम्पचा दारु शुक्ला हैमवती वचा । वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विंका ।। ३६३.
आस्फोता गिरिकर्णी स्यात् सिंहास्यो वासको वृषः । मिशी मधुरिकाच्छत्रा कोकिलाक्षेक्षुरक्षुरा ।। ३६३.
विडङ्गोऽस्त्री कृमिघ्नः स्यात् वज्रद्रुस्रुक्स्नुही सुधा । गृद्वीका गोस्तनी द्राक्षा वला वाट्यालकस्तथा ।। ३६३.
काला मसूरविदला त्रिपुटा त्रिवृत् । मधुकं क्लीतकं यष्टिमधुका मधुयष्टिका ।। ३६३.
विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता । गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा ।। ३६३.
मोचा रम्भा च कदली भष्टाकी दुष्प्रधर्षिणी । स्थिरा ध्रुवा सालपर्णी श्रृङ्गी तु वृषभो वृषः ।। ३६३.
गाङ्गेरुकी नागबला मुषली तालमूलिका । ज्योत्स्नी पटोलिका जाली अजश्रृङ्गी विषाणिका ।। ३६३.
स्याल्लाङ्गलिक्यग्निशिखा ताम्बूली गगवल्ल्यपि । हरेणू रेणुका कौन्ती ह्रीवेरो दिव्यनागरं ।। ३६३.