स्याज्जम्बीरे दन्तशठो वरुणे तिक्तशावकः । पुन्नागे पुरुषस्तुङ्गः केशरो देववल्लभः ।। ३६३.
पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः । वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ।। ३६३.
आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ । पीलौ गुड़फलः स्रंसी नीदेयी चाम्बुवेतसः ।। ३६३.
शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीरमोचकाः । रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेणिलः समौ ।। ३६३.
गालवः शावरो लोध्रस्तिरीटस्तिल्वमार्जनौ । शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ।। ३६३.
वैकङ्कतः श्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि । तिन्दुकः स्फूर्जकः कालो नादेयी भूमिजम्बुकः ।। ३६३.
काकतिन्दौ पीलुकः स्याकत् पाटलिर्मोक्षमुष्ककौ । क्रमुकः पट्टिकाख्यः स्यात् कुम्भी कैटर्य्यकट्फले ।। ३६३.
वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु । सर्जकासनजीवश्च पीतसालेऽथ मालके ।। ३६३.
सर्जाश्वकर्णौ वीरेन्द्रौ इन्द्रद्रुः ककुभोऽर्जुनः । इङ्गुदी तापसतरर्मोचा शाल्मलिरेव च ।। ३६३.
चिरविल्वो नक्तमालः करजश्च करञ्चके । प्रकीर्य्यः पूतिकरजो मर्कट्यङ्गरवल्लरी ।। ३६३.
रोही रोहितकः प्लीहशत्रुर्दाड़िमपुष्पकः । गायत्री बालतनयः खदिरो दन्तधावनः ।। ३६३.
अरिमेदो विट्खदिरे कदरः खदिरे सिते । पञ्चाङ्गुलो वर्द्धमानस्चञ्चुर्गन्धर्वहस्तकः ।। ३६३.
पिण्डीतको मरुवकः पीतदारु च दारु च । देवादारुः पूतिकाष्ठं श्यामा तु महीलाह्वया ।। ३६३.
लता गोवन्दनी गुन्दा प्रियङ्गुः फलिनी फली । मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ।। ३६३.
श्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः । पीतद्रुः सरलश्चाथ निचुलोऽम्बुज इज्जलः ।। ३६३.
काकोडुम्बरिका फल्गुररिष्टः पिचुमर्दकः । सर्व्वतोभद्रको निम्बे शिरीषस्तु कपीतनः ।। ३६३.
वकुलो वञ्जुलः प्रोक्तः पिच्छिलाऽगुरुशिंशपाः । जया जयन्ती तर्कारी कणिका गणिकारिका ।। ३६३.
श्रीपर्णमग्निमन्धः स्याद्वत्सको गिरिमल्लिका । कालस्कन्धस्तमालः स्यात् तण्डुलीयोऽल्पमारिषः ।। ३६३.
सिन्धुवारस्तु निर्गुण्डी सैवास्फोता वनोद्भवा । गणिका यूथिकाऽम्बष्ठा सप्तला नवमालिका ।। ३६३.
अतिमुक्तः पुण्ड्रकः स्यात्कुमारी तरणिः सहा । तत्र शोणे कुरुवकस्तत्र पीते कुरुष्टकः ।। ३६३.
नीला झिण्टी द्वयोर्वाणा भ्क्तिण्टी सैरीयकस्तथा । तस्मिन् रक्ते कुरुवकः पीते सहचरी द्वयोः ।। ३६३.
धुस्तूरः कितवो धूर्त्तो रुचको मातुलङ्गके । समीरणो मरुवकः प्रस्थपुष्पः फणिज्भ्क्तकः ।। ३६३.
कुठेरकस्तु पर्णासेऽथास्फोतो वसुकार्कके । शिवमल्ली पाशुपतो वृन्दा वृक्षादनी तथा ।। ३६३.
जीवन्तिका वृक्षरुहा गुडूची तन्त्रिकाऽमृता । सोमवल्ली मधुपर्णी मूर्वा तु मोरटी तथा ।। ३६३.
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । पाठाऽम्बष्ठा विद्धकर्णी प्राचीना वनतिक्तिका ।। ३६३.
कटुः कटुम्भरा चाथ चक्राङ्गी शकुलादनी । आत्मगुप्ता प्रावृषायी कपिकच्छुश्च मर्कटी ।। ३६३.
अपामार्गः शैखरिकः प्र्त्यक्पर्णी मयूरकः । फञ्चिका ब्राह्मणो भार्गी द्रवन्ती शम्भरी वृषा ।। ३६३.
मण्डूकपर्णी भण्डीरी समङ्गा कालमेषिका । रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा ।। ३६३.
पृश्निपर्णी पृथक्पर्णी कलशिर्धावनिर्गुहा । निदीग्धिका स्पृशी व्याघ्री क्षुद्रा दुस्पर्श्या सह ।। ३६३.
अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका । कालमेषी कृष्णाफ्ला वाकुची पूतिफल्यऽपि ।। ३६३.