रत्नं स्वजातिश्रेष्ठेऽपि लक्ष्म चिह्निप्रधानयोः । कलापो भूषणे वर्हे तूणीरे संहतेऽपि च ।। ३६२.
तल्पं शय्याट्टदारेषु डिम्भौ तु शिशुवालिशौ । स्तम्भौ स्थूणाजड़ीभावौ सभ्ये संसदि वै सभा ।। ३६२.
किरणप्रग्र्हौ रश्मी धर्म्माः पुण्ययमादयः । ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ।। ३६२.
प्रत्ययोऽधीनशपथज्ञानविस्वासहेतुषु । समयाः शपथाचारकालसिद्धान्तसंविदः ।। ३६२.
अत्ययोऽतिक्रमे कृच्छ्रे सत्यं शपथतथ्ययोः । वीर्य्यं बलप्रभावौ च रूप्यं रूपे प्रशस्तके ।। ३६२.
दुरोदरो द्युतकारे पणे द्यूते दुरोदरं । महारण्ये दुर्गपथे कान्तारः पुन्नपुंसकं ।। ३६२.
यमानिलेन्द्रचन्द्रार्कविष्णुसिंहादिके हरिः । दशेऽस्त्रियां भये श्वभ्रे जठरः कठिनेऽपि च ।। ३६२.
उदारो दातृमहतोरितरस्त्वन्यनीचयोः । चूड़ा किरीटं केशाश्च संयता मौलयस्त्रयः ।। ३६२.
बलिः करोपहारादौ सैन्यस्थैर्य्यादिके बलं । स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ।। ३६२.
शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः । द्यूताक्षे सारिफलकेऽप्याकर्षोऽथाऽक्षमिन्द्रिये ।। ३६२.
ना द्यूताङ्गे च कर्षे च व्यवहारे कलिद्रुमे । उष्णीषः स्यान् किरीटादौ कर्षूः कुल्याभिधायिनी ।। ३६२.
प्रत्यक्षेऽधिकृतेऽध्याक्षः सूर्य्यवह्नी विभावसू । श्रृङ्गारादौ विषे वोर्य्ये गुणे रागे द्रवे रसः ।। ३६२.
तेजःपुरीषयोर्वर्च्च आगः पापापराधयोः । छन्दः पद्येऽभिलाषे च साधीयान् साधुवाढयोः ३६२.
अग्निरुवाच वक्ष्ये भूपुराद्रिवनौषधिसिंहादिवर्गकान् । भूरनन्ता क्षमा धात्री क्ष्माप्या कुः स्याद्धरित्र्यपि ।। ३६३.
मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका । जगत्त्रिपिष्टपं लोकं भुवनं जगती समा ।। ३६३.
अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः । सरणिः पद्धतिः पद्या वर्त्तन्येकपदीति च ।। ३६३.
पूः स्त्री पुरीनगर्य्यौ वा पत्तनं पुटभेदनम् । स्यानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ।। ३६३.
तच्छाशानगरं वेशो वेश्याजनसमाश्रयः । आपणस्तु निषद्यायां विपणिः पण्यवीथिका ।। ३६३.
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियां । प्राकारो वरणः शालः प्राचीरं प्रान्ततो वृतिः ।। ३६३.
भित्तिः स्त्री कुड्यमेडूकं यदन्तर्नस्तकीकसं । वासः कुटी द्वयोः शाला सभा सञ्जवनन्त्विदम् ।। ३६३.
चतुःशालं मुनीनान्तु पर्णशालोटजोऽस्त्रियां । चैत्यमायतनन्तुल्ये वाजिशाला तु मन्दुरा ।। ३६३.
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजां । स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्द्दिस्तु वेदिका ।। ३६३.
कपोतपालिकायान्तु विटङ्कं पुंनपुंसकं । कवाटमवरन्तुल्ये निःश्रेणिस्त्वधिरोहिणी ।। ३६३.
सम्मार्जनी सोधनी स्यात् सङ्रोऽवकरस्तथा । अद्रिगोत्रगिरिग्रावा गहनं काननं वनं ।। ३६३.
आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । स्यादेतदेव प्रमदवनमन्दः पुरोचितं ।। ३६३.
वीथ्यालिरावलिः पङ्क्तिश्रेणीलेखास्तु राजयः । वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः ।। ३६३.
ओषध्यः फलपाकान्ताः पलाशी द्रुद्रुमागमाः । स्थाणु वा ना ध्रुवः शङ्कुः प्रफुल्लोत्फुल्लसंस्फुटाः ।। ३६३.
पलाशं छदनं पर्णमिध्ममेधः समित् स्त्रियां । बोधिद्रुमश्चलदलो दधित्थग्राहिमन्मथाः ।। ३६३.
तस्मिन् दधिफलः पुष्पफलदन्तशठावपि । उडुम्बरे हेमदुग्धः कोविदारे द्विपत्रकः ।। ३६३.
सप्तपर्णो विशालत्वक् कृतमालं सुवर्णकः । आरेवतव्याधिघातसम्पाक चतुरङ्गुलाः ।। ३६३.