भूगोवाचस्त्विड़ा इलाः प्रगाढ़ं भृशकृच्छ्रयोः । भृशप्रतिज्ञयोर्वाढ़ं शक्तस्थूलौ दृढ़ौ त्रिषु ।। ३६२.
विन्यस्तसंहतौ व्यूढ़ौ कृष्णो व्यासेऽर्ज्जुने हरौ । पणो द्यतादिषूत्सृष्टे भृतौ मूल्ये धनऽपि च ।। ३६२.
मौर्व्यां द्र्व्याश्रिते स्त्वशुक्तसन्ध्यादिके गुणः । श्रेष्ठेऽधिपे ग्रामणीः स्यात् जुगुप्साकरुणे घृणो ।। ३६२.
तृष्णा स्पृहापिपासे द्वे विपणिः स्याद्वणिक्पथे । विषाभिसरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु ।। ३६२.
प्रमाणं हेतुमर्य्यादाशास्त्रेयत्ताप्रमातृषु । करणं क्षेत्रगात्रादावीरिणं शून्यमूपरं ।। ३६२.
यन्ता हस्तिपके सूते वह्निज्वाला च हेतयः । श्रुतं शास्त्रावधृतयोर्युगपर्य्याप्तयोः कृतं ।। ३६२.
ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे । विविक्तौ पूतविजनौ मूर्च्छितौ मूढ़सोच्छ्रयौ ।। ३६२.
अर्थोऽभिधेयरैवस्तुप्रयोजननिवत्तिषु । निदानागमयोस्तीर्थमृषिजुष्टजले गुरौ ।। ३६२.
प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदाऽस्त्रियां । स्त्री सम्बिज्ज्ञानसम्भाषाक्रियाकाराजिनामसु ।। ३६२.
धर्म्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् । पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ।। ३६२.
त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ।।३६२.
विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे । वधूर्जाया स्नुषा स्त्री च सुधालेपोऽमृतं स्नुही ।। ३६२.
स्पृहा सम्प्रत्ययः श्रद्धा पणिडतम्मन्यगर्व्वितौ । ब्रह्मबन्धुरधिक्षेपे भानूरश्मिदिवाकरौ ।। ३६२.
द्कालाणौ शैलपाषाणौ मूर्खनीचौ पृथग्जनौ । तरुशैलौ शिखरिणौ तनुस्त्वग्देहयोरपि ।। ३६२.
आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च । उत्थानं पौरुषे तन्त्रे व्युत्थानं प्रतिरोधने ।। ३६२.
निर्य्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ।। ३६२.
मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ।। ३६२.
पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डश्चैव पारुष्यं क्रोधजोऽपि गणोऽष्टकः ।। ३६२.
अकर्म्मगुह्ये कौपीनं मैथुनं सङ्गतौ रतौ । प्रधानं परमार्था धीः प्रज्ञानं बुद्धिचिह्नयोः ।। ३६२.
क्रन्दने रोदनाह्वाने वष्म देहप्रमाणयोः । आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ।। ३६२.
रत्नं स्वजातिश्रेष्ठेऽपि लक्ष्म चिह्निप्रधानयोः । कलापो भूषणे वर्हे तूणीरे संहतेऽपि च ।। ३६२.
तल्पं शय्याट्टदारेषु डिम्भौ तु शिशुवालिशौ । स्तम्भौ स्थूणाजड़ीभावौ सभ्ये संसदि वै सभा ।। ३६२.
किरणप्रग्र्हौ रश्मी धर्म्माः पुण्ययमादयः । ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ।। ३६२.
प्रत्ययोऽधीनशपथज्ञानविस्वासहेतुषु । समयाः शपथाचारकालसिद्धान्तसंविदः ।। ३६२.
अत्ययोऽतिक्रमे कृच्छ्रे सत्यं शपथतथ्ययोः । वीर्य्यं बलप्रभावौ च रूप्यं रूपे प्रशस्तके ।। ३६२.
दुरोदरो द्युतकारे पणे द्यूते दुरोदरं । महारण्ये दुर्गपथे कान्तारः पुन्नपुंसकं ।। ३६२.
यमानिलेन्द्रचन्द्रार्कविष्णुसिंहादिके हरिः । दशेऽस्त्रियां भये श्वभ्रे जठरः कठिनेऽपि च ।। ३६२.
उदारो दातृमहतोरितरस्त्वन्यनीचयोः । चूड़ा किरीटं केशाश्च संयता मौलयस्त्रयः ।। ३६२.
बलिः करोपहारादौ सैन्यस्थैर्य्यादिके बलं । स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ।। ३६२.
शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः । द्यूताक्षे सारिफलकेऽप्याकर्षोऽथाऽक्षमिन्द्रिये ।। ३६२.