अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् । युक्ते द्वे साम्प्रतं स्थानेऽभीक्ष्णं शश्वदनारते ।। ३६१.
अभावे नह्यनो नापि मास्म मालञ्च वारणे । पक्षान्तरे चेद्यदि च तत्त्वे त्वऽद्धाऽञ्चसा द्वयम् ।। ३६१.
प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते । समन्ततस्तु परितः सर्वतो विश्वगित्यपि ।। ३६१.
अकामानुमतौ काममसूयोपगमेऽस्तु च । ननु च स्याद्विरोधोक्तौ क्कच्चित् कामप्रवेदने ।। ३६१.
निःषमं दुःषमं गर्ह्ये यथास्वलन्तु यथायथं । मृषा मिथ्या च वितथे यथार्थन्तु यथातथं ।। ३६१.
स्युरेवन्तु पुनर्वैवेत्यवधारणवाचकाः । प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयं ।। ३६१.
संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना । अल्पे नीचैर्महत्युच्चैः प्रायोभूम्न्यऽद्रुते शनैः ।। ३६१.
सना नित्ये वहिर्वाह्ये स्मातीतेऽस्तमदर्शने । अस्ति सच्चवे रुषोक्तावूमुं प्रश्नेऽनुनये त्वयि ।। ३६१.
हूं तर्के स्यादुषा रात्रेकरवसाने नमो नतौ । पुनरर्थेऽङ्गनिन्दायां दुष्ठु सुष्ठु प्रशंसने ।। ३६१.
सायं साये प्रगे प्रातः प्रभाते निकषाऽन्तिके । परुत्परार्य्यैषमोऽब्दे पूर्वे पूर्वतरे यति ।। ३६१.
अद्यात्राह्न्यऽथ पूर्वलह्नीत्यदौ पूर्वोत्तरा परात् । तथाऽधरान्यान्यतरेतरात्पूर्व्वोदुरादयः ।। ३६१.
उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि । ह्यो गतेऽनागतेऽह्नि स्वः परश्वः श्वः परेऽहनि ।। ३६१.
तदा तदानीं युगपदेकदा सर्वदा सदा । पतर्हि सम्प्रतीदानीमधुना साम्प्रतन्तथा ।। ३६१.
अग्निरुवाच आकाशे त्रिदिवे नाको लोकस्तु भुवने जने । पद्ये यशसि च शलोकः शरे खड्गे च सायकः ।। ३६२.
आनकः पटहो भेरी कलङ्कोऽङ्कापवादयोः । मारुते वेधसि व्रध्ने पुंसि कः कं शिरोऽम्बुनोः ।। ३६२.
स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके । महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ।। ३६२.
शालावृकौ कपिश्वानौ मानं स्यान्मितिसाधनं । सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ।। ३६२.
योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु । भोगः सुखे स्त्र्यादिभृतावव्जौ शङ्खनिशाकरौ ।। ३६२.
काकेभगण्डौ करटौ दुश्चर्मा शिपिविष्टकः । रिष्टं क्षएमाशुभाभावेष्वरिष्टे तु शुभाऽशुभे ।। ३६२.
व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्षिण दर्शने । निष्ठानिष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ।। ३६२.
भूगोवाचस्त्विड़ा इलाः प्रगाढ़ं भृशकृच्छ्रयोः । भृशप्रतिज्ञयोर्वाढ़ं शक्तस्थूलौ दृढ़ौ त्रिषु ।। ३६२.
विन्यस्तसंहतौ व्यूढ़ौ कृष्णो व्यासेऽर्ज्जुने हरौ । पणो द्यतादिषूत्सृष्टे भृतौ मूल्ये धनऽपि च ।। ३६२.
मौर्व्यां द्र्व्याश्रिते स्त्वशुक्तसन्ध्यादिके गुणः । श्रेष्ठेऽधिपे ग्रामणीः स्यात् जुगुप्साकरुणे घृणो ।। ३६२.
तृष्णा स्पृहापिपासे द्वे विपणिः स्याद्वणिक्पथे । विषाभिसरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु ।। ३६२.
प्रमाणं हेतुमर्य्यादाशास्त्रेयत्ताप्रमातृषु । करणं क्षेत्रगात्रादावीरिणं शून्यमूपरं ।। ३६२.
यन्ता हस्तिपके सूते वह्निज्वाला च हेतयः । श्रुतं शास्त्रावधृतयोर्युगपर्य्याप्तयोः कृतं ।। ३६२.
ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे । विविक्तौ पूतविजनौ मूर्च्छितौ मूढ़सोच्छ्रयौ ।। ३६२.
अर्थोऽभिधेयरैवस्तुप्रयोजननिवत्तिषु । निदानागमयोस्तीर्थमृषिजुष्टजले गुरौ ।। ३६२.
प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदाऽस्त्रियां । स्त्री सम्बिज्ज्ञानसम्भाषाक्रियाकाराजिनामसु ।। ३६२.
धर्म्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् । पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ।। ३६२.