कलुषश्चाविलोऽच्छस्तु प्रसन्नोऽथ गभीरकं । अगाधं दासकैवर्त्तौ शम्बूका जलशुक्तयः ।। ३६०.
सौगन्धिकन्तु कह्लारं नीलमिन्दीवरं कजं । स्यादुत्पलं कुवलयं सिते कुमुदकैरवे ।। ३६०.
शालूकमेषां कन्दः स्यात् पद्मं तामरसङ्कजं । नीलोत्पलं कुवलयं रक्तं कोकनदं स्मृतम् ।। ३६०.
करहाटः शिफा कन्दं किञ्चल्कः केशरोऽस्त्रियां । खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्व्वताः ।। ३६०.
उपत्यकाद्रेरासन्ना भूमिरूद्र्ध्वमधित्यका । स्वर्गपातालवर्गाद्या उक्ता नानार्खकान् श्रृणु ।। ३६०.
अग्निरुवाच आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे । आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात् कोपपीड़योः ।। ३६१.
पापकुत्सेषदर्थे कु धिग्जुगुप्सननिन्दयोः । चान्वाचयसमाहारेतरेतरसमुच्चये ।। ३६१.
स्वस्त्याशीः क्षएमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति । स्वित्प्रश्ने च वितर्के च तु स्याद् भेदेऽवधारणे ।। ३६१.
सकृत्सहैकवारे स्यादाराद्दूरसमीपयोः । प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ।। ३६१.
पुनःसदार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः । खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत ।। ३६१.
हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः । प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ।। ३६१.
इति हेतौ प्रकरणे प्रकाशादिसमाप्तिषु । प्राच्यां पुरस्तात् प्रथमे पुरार्थेऽग्रत इत्यपि ।। ३६१.
यावत्तावच्च साकल्येऽवधौ मानेऽवदारणे । मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्वऽथोथ च ।। ३६१.
वृथा निरर्थकाविध्योर्नानाऽनेकोभयार्थयोः । नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ।। ३६१.
प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु । गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वऽपि ।। ३६१.
उपमायां विकल्पे वा सामि त्वर्द्धे जुगुप्सिते । अमा सह समीपे च कं वारिणि च मूद्र्धनि ।। ३६१.
इवेत्थमर्थयोरेवं नूनं तर्क्केऽर्थनिश्चये । तूष्णीमर्थे सुखे जोषं किम्पृच्छायां जुगुप्सने ।। ३६१.
नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने । अलं भूषणपर्य्याप्तिशक्तिवारणवाचकम् ।। ३६१.
हुं वितर्क्के परिप्रश्ने समयाऽन्तिकमध्ययोः । पुनरप्रथमे भेदे निनिश्चयनिषेधयोः ।। ३६१.
स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा । उरर्थुरी चीररी च विस्तारेऽङ्गीकृते त्रयम् ।। ३६१.
स्वर्गे परे च लोके स्वर्वार्त्तासम्भावयोः किल । निषेधवाक्यालङ्कारे जिज्ञासावसरे१ खलु ।। ३६१.
समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः । नामप्रकाशयोः प्रादुर्मिथोऽन्योन्यं रहस्यपि ।। ३६१.
तिरोऽन्तर्द्धौ तिर्यगर्थे हा विषादशुगर्त्तिषु । अहहेत्यद्भुते खेदे हि हेताववधारणे ।। ३६१.
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः । मुहुः पुनः पुनः शश्वद भीक्षणमसकृत् समाः ।। ३६१.
स्राग्ज्ञटित्यञ्जसाह्राय सपदि द्राङ्मङ्क्षु च द्रुते । बलवत् सुष्ठु किमुत विकल्पे किं किमूत च ।। ३६१.
तु हि च स्म ह वै पादपूरणे पूजनेप्यति । दिवाह्नीत्यथ दोषा च नक्तञ्च रजनाविति ।। ३६१.
तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः । स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक् ।। ३६१.
अतर्किते तु सहसा स्यात् पुरः पुरतोऽग्रतः । स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा ।। ३६१.
किञ्चिदीषन्मनागल्पे प्रेत्याऽमुत्र भवान्तरे । यथा तथा चैव साम्ये अहो ही इति विस्मये ।। ३६१.
मौने तु तूष्णीं तूष्णीकं सद्यः सपदि तत्क्षणे । दिष्ट्या शमुपयोषञ्चेत्यानन्देऽथान्तरेऽन्तरा ।। ३६१.