समन्वितलयस्त्वेकतालो वीणा तु वल्लकी । विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ।। ३६०.
ततं वीणादिकं वाद्यमानद्धं मुरजादिकं । वंश्यादिकन्तु शुषिरं कांस्यतालादिकं घनं ।। ३६०.
चतुर्व्विधमिदं वाद्यं वादित्राताद्यनामकं । मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योऽर्द्धकास्त्रयः ।। ३६०.
स्याद्यशःपटहो ढक्का भेर्य्यामानकदुन्दुभिः । आनकः भेदा झर्झरीडिण्डिमादयः ।। ३६०.
मर्द्दलः पणवस्तुल्यौ क्रियामानन्तु तालकः । लयः साम्यं ताण्डवन्तु नाट्यं लास्यञ्च नर्त्तनं ।। ३६०.
तौर्य्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् । राजा भट्टारको देवः साभिषेका च देव्यपि ।। ३६०.
श्रृङ्गरवीरकरुणाद्भुतहास्यभयानकाः । वीभत्सरौद्रे च रसाः श्रृङ्गारः शुचिरुज्ज्वलः ।। ३६०.
उत्साहवर्द्धनो वीरः कारुण्यं करुणा घृणा । कृपा दया चानुकम्पाऽप्यनुक्रोशोऽप्यथो हसः ।। ३६०.
हासो हास्यञ्च बीभत्सं विकृतं त्रिष्विदं द्वयं । विस्मयोऽद्भुतमाश्चर्य्यं चित्रमप्यथ भैरवं ।। ३६०.
दारुणं भीषणं भीष्मं घोरं भीमं भयानकं । भयङ्करं प्रतिभयं रौद्रस्तुग्रममी त्रिषु ।। ३६०.
चतुर्द्दश दरत्रासौ भीतिर्भीः साध्वसम्भयं । विकारो मानसो भावोऽनुभावो भावबोधनः ।। ३६०.
गर्व्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः । अनादरः परिभवः परिभावस्तिरस्क्रिया ।। ३६०.
व्रीडा लज्जा त्रपा ह्राः स्यादभिध्यानं धने स्पृहा । कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलं ।। ३६०.
स्त्रीणं विलासविव्वोकविभ्रमा ललितन्तथा । हेला लीलेत्यमी हावाः क्रियाः श्रृङ्गारभावजाः ।। ३६०.
द्रवकेलिपरीहासाः क्रोड़ा लीला च कूर्द्दनं । स्यादाच्छुरितकं हासः सोत्प्रासः समनाक्स्मितं ।। ३६०.
अधोभुवनपातालं च्छिद्रं श्वभ्रं वपा शुषिः । गर्त्तावटौ भुवि श्वभ्रे तमिशन्तिमिरं तमः ।। ३६०.
सर्पः पृदाकुर्भुजगो दन्दशूकों विलेशयः । विषं क्ष्वेडश्च गरलं निरयो दुर्गतिः स्त्रियां ।। ३६०.
पयः कीलालममृतमुदकं भुवनं वनं । भङ्गस्तरङ्गु ऊर्म्मिर्व्वा कल्लोलोल्लोलकौ च तौ ।। ३६०.
पृषन्तिविन्दुपृषताः कूलं रोधश्च तीरकं । तोयोत्थितं तत् पुलिनं जम्बालं पङ्ककर्दमौ ।। ३६०.
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः । आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी ।। ३६०.
कलुषश्चाविलोऽच्छस्तु प्रसन्नोऽथ गभीरकं । अगाधं दासकैवर्त्तौ शम्बूका जलशुक्तयः ।। ३६०.
सौगन्धिकन्तु कह्लारं नीलमिन्दीवरं कजं । स्यादुत्पलं कुवलयं सिते कुमुदकैरवे ।। ३६०.
शालूकमेषां कन्दः स्यात् पद्मं तामरसङ्कजं । नीलोत्पलं कुवलयं रक्तं कोकनदं स्मृतम् ।। ३६०.
करहाटः शिफा कन्दं किञ्चल्कः केशरोऽस्त्रियां । खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्व्वताः ।। ३६०.
उपत्यकाद्रेरासन्ना भूमिरूद्र्ध्वमधित्यका । स्वर्गपातालवर्गाद्या उक्ता नानार्खकान् श्रृणु ।। ३६०.
अग्निरुवाच आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे । आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात् कोपपीड़योः ।। ३६१.
पापकुत्सेषदर्थे कु धिग्जुगुप्सननिन्दयोः । चान्वाचयसमाहारेतरेतरसमुच्चये ।। ३६१.
स्वस्त्याशीः क्षएमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति । स्वित्प्रश्ने च वितर्के च तु स्याद् भेदेऽवधारणे ।। ३६१.
सकृत्सहैकवारे स्यादाराद्दूरसमीपयोः । प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ।। ३६१.
पुनःसदार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः । खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत ।। ३६१.