संवर्त्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि । कलुषं वृजिनैनो।़घमंहोदुरितदुष्कृतम् ।। ३६०.
स्याद्धर्म्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः । मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ।। ३६०.
स्यादानन्दथुरानन्दः शर्म्मशातसुखानि च । श्वाश्रेयसं शिवं भद्रं कल्याणं मड्गलं शुभम् ।। ३६०.
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियां । दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्व्विधिः ।। ३६०.
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियां । दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्व्विधिः ।। ३६०.
चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसम्मनः । बुद्धिर्म्मनीषा विषणा धीः प्रज्ञा शेमुषी मतिः ।। ३६०.
प्रेक्षोपलब्धिश्चित्सम्बित्प्रतिपज्ज्ञप्तिचेतनाः । धीर्धारणावती मेधा सङ्कल्पः कर्म्म मानसं ।। ३६०.
सङ्ख्या विचारणा चर्च्चा विचिकित्सा तु संशयः । अध्याहारस्तर्क्क ऊहः समौ निर्णयनिश्चयौ ।। ३६०.
मिथ्यादृष्टिर्नाम्तिकता भ्रान्तिर्म्मिथ्यामतिर्भ्रमः । अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ।। ३६०.
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः । मुक्तिः कैवल्यनिर्व्वाणश्रेयोनिः श्रेयसामृतं ।। ३६०.
मोक्षोऽपवर्गोथाज्ञानमविद्याहम्मतिः स्त्रियां । विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।। ३६०.
. आमोदः सोऽतिनिर्हारी सुरभिर्घ्राणतर्पणः । शुक्लशुभ्रशुचिश्येतविशदश्वेतपाण्डराः ।। ३६०.
अवदातः सितो गौरो बलक्षो धवलोऽर्ज्जुनः । हरिणाः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ।। ३६०.
कृष्णे नीलासितश्यामकालश्यामलमेचकाः । पीतो गौरो हरिद्राभः पालाशो परितो हरित् ।। ३६०.
रोहितो लोहितो रक्तः शोणः कोकनदच्छविः । अचव्यक्तरागस्त्वरुमः श्वेतरक्तस्तु पाटलः ।। ३६०.
श्यावः स्यातकपिशो धूम्रधूमलौ कृष्णलोहिते । क्कड़ारः कपिलः पिड्गपिशङ्गौ कद्रुपिङ्गलौ ।। ३६०.
चित्रं विर्म्मीरकल्माषशवलैताश्च कर्व्वुरे । व्याहार उक्तिर्लपितमपभ्रंशोऽपशब्दकः ।। ३६०.
तिङ्सुवन्तवयो वाक्यं क्रिया वा कारकान्विता । इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणं ।। ३६०.
आख्यातिकोपलब्धार्था प्रबन्धः कल्पना कथा । समाहारः संग्रहस्तु प्रवह्लिका प्रहेलिका ।। ३६०.
समस्या तु समासार्था स्मृतिस्तु धर्म्मसंहिता । आख्याह्वे चाभिधानञ्च वार्त्ता वृत्तान्त ईरितः ।। ३६०.
हूतिराकारणाह्वानमुपन्यासस्तु वाङ्मुखं । विवादो व्यवहारः स्यात् प्रतिवाक्योत्तरे समे ।। ३६०.
उपोद्घात उदाहारो ह्यथ मिथ्याभिसंशनम् । अभिशापो यशः कीर्त्तिः प्रश्नः पृच्छानुयोगकः ।। ३६०.
आम्रेडितं द्विस्त्रिरुक्तं कुत्सानिन्दे च गर्हणे । स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ।। ३६०.
अनुलापो मुहुर्भाषा विलापः परिदेवनं । विप्रलापो विरोधोक्तिः संलापो भापणं मिथः ।। ३६०.
सुप्रलापः सुवचनमपलापस्तु निह्नवः । उषती वागकल्याणी सङ्गतं हृदयङ्गमं ।। ३६०.
अत्यर्थमधुरं सान्त्वमबद्धं स्यादनर्थकं । निष्ठुराश्लीलपरुषं ग्राम्यं वै सूनृतं प्रिये ।। ३६०.
सत्यं तथ्यमृतं सम्यङ्नादनिस्वाननिस्वनाः । आरवारावसंरावविरावा अथ मर्म्मरः ।। ३६०.
स्वनिते वस्त्रपर्णानां भूषणानान्तु शिञ्जितं । वीणाया निक्कणः क्काणः तिरश्चां वाशितं रुतं ।। ३६०.
कोलाहलः कलकलो गीतं गानमिमे समे । स्त्री प्रतिश्रुत् प्रतिध्वाने तन्त्रीकण्ठान्निसादकः ।। ३६०.
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु ।। ३६०.