हाहा ह्हूस्च गन्धर्व्वा अग्निर्वग्निर्धनञ्चयः । जातवेदाः कृष्णवर्त्मा आश्रयाशश्च पावकः ।। ३६०.
हिरण्यरेताः सप्तार्च्चिः शुक्रश्चैवाशुशुक्षणिः । शुचिरप्पित्तमोर्व्वस्तु वाडबो वडवानलः ।। ३६०.
वह्नेर्द्वयोर्ज्वालकीलावर्च्चितिः शिखा स्त्रियां । त्रिषु स्फुलिङ्गोऽग्रिकणो धर्म्मराजः परेतराट् ।। ३६०.
कालोऽन्तको दण्डधरः श्राद्धेदेवोऽथ राक्षसः । कौणपास्रपक्रव्यादा यातुधानश्च नैर्ऋतिः ।। ३६०.
प्रचेता वरूणः पाशी स्वसनः स्पर्शनोऽनिलः । सदागतिर्मातरिश्वा प्राणो मरुत् समीरणः ।। ३६०.
जवो रंहस्तरसी तु लघुक्षिप्रमरन्द्रुतम् । सत्वरं चपलं सूर्णमविलम्बितमाशु च ।। ३६०.
सततेऽनारताश्रान्तसन्तताविरतानिशं । नित्यानवलरताजस्रमप्यथातिशयो भरः ।। ३६०.
अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् । तीव्रैकान्तनितान्तानि गाढवाढदृढानि च ।। ३६०.
गुह्यकेशो यक्षराजो राजराजो धनाधिपः । स्यात् किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः ।। ३६०.
निधिर्न्ना शेवधिर्व्योम त्वभ्रं पुष्करमम्बरम् । द्योदिवौ चान्तरीक्षं खं काष्ठाशाककुभो दिशः ।। ३६०.
अभ्यन्तरन्त्वन्तरालञ्चक्रवाड़न्तु मण्डलं । तडित्वान् वारिदो मेघस्तनयित्नुर्वलाहकः ।। ३६०.
कादम्बिनी मेधमाला स्तनितं गर्जितं तथा । शम्पाशतह्नदाह्नादिन्यैरावत्यः क्षणप्रभाः ।। ३६०.
तडित्सौदामिनी विद्युच्चञ्चला चपलाऽपि च । स्फूर्जथुर्व्वज्रनिष्पेषो वृष्टिघातस्त्ववग्रहः ।। ३६०.
धारा सम्पात् आशारः शीकरोऽम्बुकणाः स्मृताः । वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्द्दिनं ।। ३६०.
अन्तर्धा व्यवधा पुंसि त्वन्तर्द्धिंरपवारणं । अपिधानतिरोधानपिधानच्छनानि च ।। ३६०.
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः । विधुः कुमुदवन्धुश्च विम्बोऽस्त्री मण्डलं त्रिषु ।। ३६०.
कला तु षोडशो भागो भित्तं शकलखण्डके । चन्द्रिका कौमुदी ज्योत्स्त्रा प्रसादस्तु प्रसन्नता ।। ३६०.
लक्ष्णं लक्ष्मकं चिह्नं शोभा कान्तिद्यु तिश्छविः । सुषमा परमा शोभा तुषारस्तुहिनं हिमं ।। ३६०.
अवश्यायस्तु नीहारः प्रालेयः शिशिरो हिमः । नक्षत्रमृक्षं भन्तारा तारकाप्युडु वा स्त्रियां ।। ३६०.
गुरुर्जीव आङ्गिरस उशना भार्गवः कविः । विधुन्तुदस्तमो राहुर्ल्लग्नं राश्युदयः स्मृतः ।। ३६०.
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः । इरिदश्वव्रध्नपूषद्युमणिर्म्मिहिरो रविः ।। ३६०.
परिवेषस्तु परिधिरुपसूर्य्यकमण्डले । किरणोऽस्नमयूखांशुगभस्तिघृणिधूष्णयः ।। ३६०.
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियां । स्युः प्रभा रुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ।। ३६०.
रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः । कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ।। ३६०.
तिग्मं तीक्ष्णं खरं तद्वद्दिष्टोऽनेहा च कालकः । घस्रो दिनाहनी चैध सायंसन्ध्या पितृप्रसूः ।। ३६०.
प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्यूषसी अपि । प्राह्वापराद्वमध्याह्णास्त्रिसन्ध्यमथ शर्व्वरी ।। ३६०.
यामी तमी तमिस्रा च ज्यौत्स्नी चन्द्रिकयान्विता । आगामिवर्त्तमानाहर्युक्तायां निशि पक्षिणी ।। ३६०.
अर्द्धरात्रानिशीथौ द्वौ प्रदोषो रजनीमुखं । स पर्व्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ।। ३६०.
पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा । कलाहिने सानुमतिः पूर्णे राका निशाकरे ।। ३६०.
अमावास्या त्वमावस्या दर्शः सूर्य्येन्दुसङ्गमः । सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला हुहूः ।। ३६०.