अष्टोत्तरशतादूर्द्ध्वं तदर्द्धं चोत्तमादिकम्। क्रियालोपविधानार्थं यत्त्वयाभिहितं प्रभो
मया तत् क्रियते देव यथा यत्र पवित्रकम्। अविध्नं तु भवेदत्र कुरु नाथ जयाव्यय
प्रार्थ्य तन्मण्डलायादौ गायत्र्या बन्धयेन्नरः। ओं नारायणाय विद्महे वासुदेवाय धीमहि
तन्नो विष्णुः प्रचोदयात् देवदेवानुरूपतः। जानूरुनाभिनासान्तं प्रतिमासु पवित्रकम्
पादान्ता वनमाला स्यादष्टोत्तरसहस्रतः । मालां तु कल्पसाध्यां वा द्विगुणं षोडशाङ्गुलाम्
कर्णिका केशरं पत्रं मन्त्राद्यं मण्डलान्तकम्। मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ पवित्रकम्
स्थण्डिलेऽङ्गुलमानेन आत्मनः सप्तविंशतिः। आचार्य्याणां च सूत्राणि पितृमात्रादिपुस्तके
नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके। द्व्यङ्गुलात् कल्पनादौ द्विर्माला चाष्टोत्तरं शतम्
अथवार्कचतुर्विंशषट्त्रिंशन्मालिका द्विजः। अनामामध्यमाङ्गुष्ठैर्मन्दाद्यैः मालिकार्थिभिः
कनिष्ठा दौ द्वादश वा ग्रन्थयः स्युः पवित्रके। रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम्
पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डके। यथाशक्ति सूत्रग्रन्थिः परिचारेथ वैष्णवे
सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके । रोचनागुरुकर्पूरहरिद्राकुङ्कुमादिभिः
रञ्जयेच्चन्दनाद्यैर्वा स्नानसन्ध्यादिकृन्नरः। एकादश्यां यागगृहे भगवंतं हरिं यजेत्
समस्तपरिवाराय बलिं पीठे समर्चयेत्। क्षौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियम्
धात्रे दक्षे विधात्रे च गङ्गाञ्च यमुनां तथा। शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारणम्
ओं ह्रूं हः फट् ह्रं गन्धतन्मात्रं संहरामि नमः ।। ओं ह्रूं हः फट् ह्रूं रसतन्मात्रं संहरामि नमः । ओं ह्रूं हः फट् ह्रुं रूपतन्मात्रं संहरामि नमः ।। ओं ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः । ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।। पञ्चोद्घातैर्गन्धतन्मात्ररूपं भूमिमण्डलम्। चतुरस्रञ्च पीतञ्च कठिनं वज्रलाञ्छितम्
इन्द्राधिदैवतं पादयुग्ममध्यगतं स्मरेत्। शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत्
ओं ह्रीं हः फट् ह्रूं रसतन्मात्रं संहरामि नमः ।। ओं ह्रूं हः फट् रूपतन्मात्रं संहरामि नमः। ओं ह्रीं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।। ओं ह्रीं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः। जानुनाभिमध्यगतं श्वेतं वै पद्मलाञ्छितम्। शुवलवर्णं चार्द्धचन्द्रं ध्यायेद्वरुणदैवतम्
चतुर्भश्च तदुद्घातैः शुद्धं तद्रसमात्रकम्। संहरेद्रूपतन्मात्रै रूपमात्रे च संहरेन्
ओं ह्रूं हः फट् ह्रूं पूतन्मात्रं संहरामि नमः। ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।. ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः । इति त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम्। नाभिकण्ठमध्यगतं रक्तं स्वस्तिकलाञ्छितम्
ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयेत्। ओं ह्रौं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः। ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः
द्विरुद्घातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम्। स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः
ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः। एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम्। नासापुटशिखान्तस्थमाकाशामुपसंहरेत्
शोषणाद्यैर्द्देशुद्धिं कुर्यादेवं क्रमात्तः। शुष्कं कलेवरं ध्यायेत् पादाद्यञ्च शिखान्तकम्
यं बीजेन वं बीजेन ज्वालामालासमायुतम् । देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम्
बिन्दुन्ध्यात्वा चामृतस्य तेन भस्म कलेवरम्। सम्प्लावयेल्लमित्यस्मात् देहं सम्पाद्य दिव्यकम्
न्यासं कृत्वा करे देहे मानसं यागमाचरेत्। विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभि
मूलमन्त्रेण देवेशम्प्रार्च्चयेद्भुक्तिमुक्तिदम्। स्वागतं देवदेवेश सन्निधौ भव केशव
गृहाण मानसीं पूजां यथार्थं परिभाविताम्। आधारशक्तिः कूर्माथ पूज्योनन्तो मही ततः
मध्येग्न्यादौ च धर्माद्या अधर्मादीन्द्रमुख्यगम् । सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके