अग्निरुवाच स्वर्गादिनामलिङ्गो यो हरिस्तं प्रवदामि ते । स्वः स्वर्गनाकत्रिदिवा द्योदिवौ द्वेत्रिपिष्टपं ।। ३६०.
देवा वृन्दारका लेखा रुद्राद्या गणदेवताः । विद्याधरोऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।। ३६०.
पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः । देवद्विषोऽसुरा दैत्याः सुगतः स्यात्तथागतः ।। ३६०.
ब्रह्मात्मभूः सुरज्येष्ठो विष्णुर्न्नारायणो हरिः । रेवतीशो हली रामः कामः परञ्चशरः स्मरः ।। ३६०.
लक्ष्मीः पद्मालया पद्मा सर्व्वः सर्व्वेश्वरः शिवः । कपर्दोऽस्य जटाजूटः पिनाकोऽजगबन्धनुः ।। ३६०.
प्रमथाः स्युः पारिषदा मृड़ानी चण्डिकाऽम्बिका । द्वैमातुरो गजास्यश्च सेनानीरग्निभूर्गुहः ।। ३६०.
आखण्डलः सुनासीरः सुत्रामाणो दिवस्पतिः । पुलोमजा शचीन्द्राणी देवी तस्य तु वल्लभा ।। ३६०.
स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः । ऐशवतेऽभ्रमातह्गैरावणाभ्रमुवल्लभाः ।। ३६०.
ह्रादिनी वज्रमस्त्री स्यात् कुलिशम्भिदुरं पविः । व्योमयानं विमानोऽस्त्री पीयूषममृतं सुधा ।। ३६०.
स्यात् सुधर्म्मा देवसभा स्वर्गङ्गा सुरदीर्घिका । स्त्रियां बहुष्वप्सरसः स्वर्व्वेश्या उर्व्वशीमुखाः ।। ३६०.
हाहा ह्हूस्च गन्धर्व्वा अग्निर्वग्निर्धनञ्चयः । जातवेदाः कृष्णवर्त्मा आश्रयाशश्च पावकः ।। ३६०.
हिरण्यरेताः सप्तार्च्चिः शुक्रश्चैवाशुशुक्षणिः । शुचिरप्पित्तमोर्व्वस्तु वाडबो वडवानलः ।। ३६०.
वह्नेर्द्वयोर्ज्वालकीलावर्च्चितिः शिखा स्त्रियां । त्रिषु स्फुलिङ्गोऽग्रिकणो धर्म्मराजः परेतराट् ।। ३६०.
कालोऽन्तको दण्डधरः श्राद्धेदेवोऽथ राक्षसः । कौणपास्रपक्रव्यादा यातुधानश्च नैर्ऋतिः ।। ३६०.
प्रचेता वरूणः पाशी स्वसनः स्पर्शनोऽनिलः । सदागतिर्मातरिश्वा प्राणो मरुत् समीरणः ।। ३६०.
जवो रंहस्तरसी तु लघुक्षिप्रमरन्द्रुतम् । सत्वरं चपलं सूर्णमविलम्बितमाशु च ।। ३६०.
सततेऽनारताश्रान्तसन्तताविरतानिशं । नित्यानवलरताजस्रमप्यथातिशयो भरः ।। ३६०.
अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् । तीव्रैकान्तनितान्तानि गाढवाढदृढानि च ।। ३६०.
गुह्यकेशो यक्षराजो राजराजो धनाधिपः । स्यात् किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः ।। ३६०.
निधिर्न्ना शेवधिर्व्योम त्वभ्रं पुष्करमम्बरम् । द्योदिवौ चान्तरीक्षं खं काष्ठाशाककुभो दिशः ।। ३६०.
अभ्यन्तरन्त्वन्तरालञ्चक्रवाड़न्तु मण्डलं । तडित्वान् वारिदो मेघस्तनयित्नुर्वलाहकः ।। ३६०.
कादम्बिनी मेधमाला स्तनितं गर्जितं तथा । शम्पाशतह्नदाह्नादिन्यैरावत्यः क्षणप्रभाः ।। ३६०.
तडित्सौदामिनी विद्युच्चञ्चला चपलाऽपि च । स्फूर्जथुर्व्वज्रनिष्पेषो वृष्टिघातस्त्ववग्रहः ।। ३६०.
धारा सम्पात् आशारः शीकरोऽम्बुकणाः स्मृताः । वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्द्दिनं ।। ३६०.
अन्तर्धा व्यवधा पुंसि त्वन्तर्द्धिंरपवारणं । अपिधानतिरोधानपिधानच्छनानि च ।। ३६०.
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः । विधुः कुमुदवन्धुश्च विम्बोऽस्त्री मण्डलं त्रिषु ।। ३६०.
कला तु षोडशो भागो भित्तं शकलखण्डके । चन्द्रिका कौमुदी ज्योत्स्त्रा प्रसादस्तु प्रसन्नता ।। ३६०.
लक्ष्णं लक्ष्मकं चिह्नं शोभा कान्तिद्यु तिश्छविः । सुषमा परमा शोभा तुषारस्तुहिनं हिमं ।। ३६०.
अवश्यायस्तु नीहारः प्रालेयः शिशिरो हिमः । नक्षत्रमृक्षं भन्तारा तारकाप्युडु वा स्त्रियां ।। ३६०.
गुरुर्जीव आङ्गिरस उशना भार्गवः कविः । विधुन्तुदस्तमो राहुर्ल्लग्नं राश्युदयः स्मृतः ।। ३६०.