एधतामेधेता मेधन्तामेधै पटावहै पचामहै । अभ्यनन्ददपचतामपचन्नपचस्तथा ।। ३५८.
अभवतमभवतापचमपचावापचाम च । ऐधतैधेतामैधध्वं ऐधे चैधामहीरितं ।। ३५८.
अभूदभूतामभूवनभूश्चभूवमेव लुङ् । ऐधिष्टैधिषातां नरावैधिष्ठा ऐधिषीदृशं ।। ३५८.
लिटि बभूव बभूवतुः बभूवुश्च बभूविथ । बभूवथुर्बभूव च बभूविव वभूविम ।। ३५८.
पेचे पेचाते पेचिरे त्वमेधाञ्चकृषे तथा । एधाञ्चक्राथे पेचिध्वे पेचे पेचिमहे तथा ।। ३५८.
लुटि भविता भचवितारौ भवितारो हरादयः । भवितासि भवितास्थो भवितास्मस्तथा वयं ।। ३५८.
पक्ता पक्तारौ पक्तारः पक्तासे त्वं शुभौदनं । पक्ताध्वे पक्ताहे चाहं पक्तास्महे हरेश्चरुं ।। ३५८.
लिङाशिषि सुखं भूयात् भूयास्तां हरिशङ्करौ । भूयासुस्ते च भूयास्त्वं युवां भूयास्तमीश्वरौ ।। ३५८.
भूयास्त यूयं भूयासमहं भूयास्म सर्व्वदा । यक्षीष्ट ह्येधिषीयास्तां यक्षीरन्नेधिषीय च ।। ३५८.
यक्षीवह्येधिषीमहि लिङि चायक्ष्यतेति लृङ् । अयक्ष्येतामयक्ष्यन्तायक्ष्येऽयक्ष्येथां युवां ।। ३५८.
अयक्षअयध्वमैधिष्यावह्यैधिष्यामह्यरेर्वयम् । लृटि स्याद्भविष्यतीति एधिष्यामह ईदृशम् ।। ३५८.
एवं विभावयिष्यन्ति बोभविष्यति रूपकं । घटयेत् पटयेत्तद्वत् पुत्रीयति च काम्यति ।। ३५८.
कुमार उवाच कृतस्त्रिष्वपि विज्ञेया भावे कर्म्मणि कर्त्तरि । अज्ल्युट् क्तिन् घञो भावे युजकारत एव च ।। ३५९.
अचि धर्म्मस्य विनय उत्करः प्रकरस्तथा । देवो भद्रः श्रीकरश्च त्लुटि रूपन्तु शोभनम् ।। ३५९.
क्तिनि वृद्धिस्तुतिमतो घञि बावोऽथ युच्यपि । कारणा भावनेत्यादि अकारे च चिकित्सया ।। ३५९.
तथा तव्यो ह्यनीयश्च कर्त्तव्यं करणीयकम् । देयं ध्येयञ्चैव यति ण्यति कार्य्यञ्च कृत्यकाः ।। ३५९.
कर्त्तरि क्तादयो ज्ञेया भावे कर्म्मणि च क्कचित् । गतो ग्रामं गतो ग्रम आश्लिष्टश्च गुरुस्त्बया ।। ३५९.
शतृङ्शानचौ भवन् एधमानो भवन्त्यपि । पुण् तृचौ सर्व्बधातुभ्यो भावको भविता तथा ।। ३५९.
क्किबन्तश्च स्वयम्भूश्च भूते लिटः क्कन्सु कान च । बभूविवान् पेचिवांश्च पेचानः श्रद्दधानकः ।। ३५९.
अणि स्युः कुम्भकाराद्या भूतेप्युणादयः स्मृताः । वायुः पायुश्च कारुः स्याद्वहुलं छन्दसीरितं ।। ३५९.
अग्निरुवाच स्वर्गादिनामलिङ्गो यो हरिस्तं प्रवदामि ते । स्वः स्वर्गनाकत्रिदिवा द्योदिवौ द्वेत्रिपिष्टपं ।। ३६०.
देवा वृन्दारका लेखा रुद्राद्या गणदेवताः । विद्याधरोऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।। ३६०.
पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः । देवद्विषोऽसुरा दैत्याः सुगतः स्यात्तथागतः ।। ३६०.
ब्रह्मात्मभूः सुरज्येष्ठो विष्णुर्न्नारायणो हरिः । रेवतीशो हली रामः कामः परञ्चशरः स्मरः ।। ३६०.
लक्ष्मीः पद्मालया पद्मा सर्व्वः सर्व्वेश्वरः शिवः । कपर्दोऽस्य जटाजूटः पिनाकोऽजगबन्धनुः ।। ३६०.
प्रमथाः स्युः पारिषदा मृड़ानी चण्डिकाऽम्बिका । द्वैमातुरो गजास्यश्च सेनानीरग्निभूर्गुहः ।। ३६०.
आखण्डलः सुनासीरः सुत्रामाणो दिवस्पतिः । पुलोमजा शचीन्द्राणी देवी तस्य तु वल्लभा ।। ३६०.
स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः । ऐशवतेऽभ्रमातह्गैरावणाभ्रमुवल्लभाः ।। ३६०.
ह्रादिनी वज्रमस्त्री स्यात् कुलिशम्भिदुरं पविः । व्योमयानं विमानोऽस्त्री पीयूषममृतं सुधा ।। ३६०.
स्यात् सुधर्म्मा देवसभा स्वर्गङ्गा सुरदीर्घिका । स्त्रियां बहुष्वप्सरसः स्वर्व्वेश्या उर्व्वशीमुखाः ।। ३६०.