जगच्चैव तु भूर्लोको कृशानुर्ज्योतिरर्क्ककः । वर्व्वरः कुटिलो धूर्त्तश्चत्वरञ्च चतुष्पथं ।। ३५७.
चीवरं भिक्षुप्रावृत्तिरादित्यो मित्र ईरितः । पुत्रः सूनुः पिता तातः पृदाकुर्य्याघ्रवृश्चिके ३५७.
कुमार उवाच तिङ्विभक्तिं प्रवक्ष्यामि तथादेशं समासतः । तिङस्त्रिष्वपि वर्त्तन्ते भावे कर्म्मणि कर्त्तरि ।। ३५८.
सकर्म्मकाकर्म्मकाच्च कर्त्तरि द्विपदे स्मृताः । सकर्म्मकाकर्म्मणि च तदादेशस्तथेरितः ।। ३५८.
वर्त्तमाने लडाख्यातो विध्याद्यर्थे लिङीरितः । विध्यादौ लोडाशिषि च भूतानद्यतने च लङ् ।। ३५८.
भूते लुङ् लिट् परोक्षेऽथ भाविन्यद्यतने च लुट् । लिङाशिषि च शेषेऽर्थे लृड् भविष्यति लृङ्भवेत् ।। ३५८.
लिङ्निमित्ते क्रियातिपत्तौ परे नवात्मनेपदम् । पूर्व्वं न परस्मैपदन्तिप्तसन्तीति प्रथमः पुमान् ।। ३५८.
सिप्थस्थ मध्यमनरो मिप्वस्मस्चोत्तमः पुमान् । त आतां अन्तात्मने मुख्यः थासाथां ध्वञ्च मध्यमः ।। ३५८.
उत्तम इ वहि महि भूवाद्या धातवः स्मृताः । भुविरेधिः पचिर्नन्दिर्ध्वंसिः श्रंसिः पदिस्त्वदिः ।। ३५८.
शीङः क्रीड़ो जुहोतिश्च जहातिश्च दधात्यपि । दीव्यतिः स्वपितिर्नहिः सुनोतिर्वसिरेच च ।। ३५८.
तुदिर्मृशतिर्मुञ्चतिः रुधिर्भुजिस्त्यजिस्तनिः । शवादिके विकरणे मनिश्चैव करोत्यपि ।। ३५८.
क्रीड़तिर्वृङो ग्रहिश्चोरिः पा नीरच्चिश्च नायकाः । भुवि स्यात् तिङ् भवति सः भवतस्तौ भवन्ति ते ।। ३५८.
भवसि त्वं युवां भवथो यूयं भवथ चाप्यहं । भवाम्यावां भवावश्च भवामो ह्येधते कुलं ।। ३५८.
एधेते द्वे तथैधन्ते एधसे त्वं हि मेधया । एधेथे च समेधध्वे एधे ह्येधावहे धिया ।। ३५८.
एधामहे हरेर्भक्त्या पचतीत्यादि पूर्व्ववत् । भूयतेऽनुभूयतेऽसौ भावे कर्म्मणि वै यकि ।। ३५८.
वुभूषति सनीत्येवं णिचि बाचवयतीश्वरं । यङि वोभूयते वाद्यं वोभोति स्याच्च यङ्लुकि ।। ३५८.
पुत्रीयति पुत्रकाम्यत्येवं पटपटायते । घटयत्यऽथ सनि णिचि बुभूषयति रूपकं ।। ३५८.
भवेद्भवेताञ्च लिङि भवेयुश्च भवेः परे । भवेतञ्च भवेतैवं भवेयञ्च भवेव च भवेम च ।। ३५८.
एधेत एधेयातामेधेरन् मनसा श्रिया । एधेथाश्च एधेयाथामेधेध्वमेधेय एधेवाहि एधेमहि ।। ३५८.
अस्तु तावद्भवतां लोटि भवन्तु भवताद्भव । भवतं भवत् भवानि भवाव च भवाम् च ।। ३५८.
एधतामेधेता मेधन्तामेधै पटावहै पचामहै । अभ्यनन्ददपचतामपचन्नपचस्तथा ।। ३५८.
अभवतमभवतापचमपचावापचाम च । ऐधतैधेतामैधध्वं ऐधे चैधामहीरितं ।। ३५८.
अभूदभूतामभूवनभूश्चभूवमेव लुङ् । ऐधिष्टैधिषातां नरावैधिष्ठा ऐधिषीदृशं ।। ३५८.
लिटि बभूव बभूवतुः बभूवुश्च बभूविथ । बभूवथुर्बभूव च बभूविव वभूविम ।। ३५८.
पेचे पेचाते पेचिरे त्वमेधाञ्चकृषे तथा । एधाञ्चक्राथे पेचिध्वे पेचे पेचिमहे तथा ।। ३५८.
लुटि भविता भचवितारौ भवितारो हरादयः । भवितासि भवितास्थो भवितास्मस्तथा वयं ।। ३५८.
पक्ता पक्तारौ पक्तारः पक्तासे त्वं शुभौदनं । पक्ताध्वे पक्ताहे चाहं पक्तास्महे हरेश्चरुं ।। ३५८.
लिङाशिषि सुखं भूयात् भूयास्तां हरिशङ्करौ । भूयासुस्ते च भूयास्त्वं युवां भूयास्तमीश्वरौ ।। ३५८.
भूयास्त यूयं भूयासमहं भूयास्म सर्व्वदा । यक्षीष्ट ह्येधिषीयास्तां यक्षीरन्नेधिषीय च ।। ३५८.
यक्षीवह्येधिषीमहि लिङि चायक्ष्यतेति लृङ् । अयक्ष्येतामयक्ष्यन्तायक्ष्येऽयक्ष्येथां युवां ।। ३५८.