प्रथिमा चेमनि पृथोः सौख्यं सुखात् ष्यञीरितम् । स्तेयं यति च स्येनस्य ये सख्युः सख्यमीरितं ।। ३५६.
कपेर्भावश्च कापेयं सैन्यं पथ्यं यकीरितं । आश्वं कौमारकं चाणि रूपं चाणि च यौवनम् ३५६.
कुमार उवाच उणादयोऽभिधास्यन्ते प्रत्यया धातुतः परे । उणि कारुश्च शिल्पी स्यात् जायुर्म्मायुश्च पित्तकं ।। ३५७.
गोमायुर्वायुर्वेदेषु बहुलं स्युरुणादयः । आयुः स्वादुश्च हेत्वाद्याः किंशारुर्धान्यशूककः ।। ३५७.
कृकवाकुः कुक्कुटः स्याद् गुरुर्भर्त्ता मरुस्तथा । शयुश्चाजगरो ज्ञेयः स हरायुधमुच्यते ।। ३५७.
स्वरुद्र्वज्रं त्रपुरुसि समसारं फल्गुरीरितं । गृध्रश्च क्रनि किरचि मन्दिरं तिमिरं तमः ।। ३५७.
इलचि सलिलं वारि कल्याणं भण्डिलं स्मृतं । बुवो विद्वान् क्कसौ स्याच्च शिविरं गुप्तसंस्थितिः ।। ३५७.
ओतुर्विडालश्च तुनि अभिधानादुगादयः । कर्णः कामी च गृहभूर्वास्तुर्जैवातृकः स्मृतः ।। ३५७.
कम्बोजो भाजनम्भाण्डं सरण्डश्च चतुष्पदः । तरुरेरण्डः सङ्घातो वरूड़ः साम निर्भरं ।। ३५७.
स्फारं प्रभूतं स्यान्नान्तप्रत्यये चीरवल्कलं । कातरो भीरुरुग्रस्तु प्रचण्डो जवसं तृणं ।। ३५७.
जगच्चैव तु भूर्लोको कृशानुर्ज्योतिरर्क्ककः । वर्व्वरः कुटिलो धूर्त्तश्चत्वरञ्च चतुष्पथं ।। ३५७.
चीवरं भिक्षुप्रावृत्तिरादित्यो मित्र ईरितः । पुत्रः सूनुः पिता तातः पृदाकुर्य्याघ्रवृश्चिके ३५७.
कुमार उवाच तिङ्विभक्तिं प्रवक्ष्यामि तथादेशं समासतः । तिङस्त्रिष्वपि वर्त्तन्ते भावे कर्म्मणि कर्त्तरि ।। ३५८.
सकर्म्मकाकर्म्मकाच्च कर्त्तरि द्विपदे स्मृताः । सकर्म्मकाकर्म्मणि च तदादेशस्तथेरितः ।। ३५८.
वर्त्तमाने लडाख्यातो विध्याद्यर्थे लिङीरितः । विध्यादौ लोडाशिषि च भूतानद्यतने च लङ् ।। ३५८.
भूते लुङ् लिट् परोक्षेऽथ भाविन्यद्यतने च लुट् । लिङाशिषि च शेषेऽर्थे लृड् भविष्यति लृङ्भवेत् ।। ३५८.
लिङ्निमित्ते क्रियातिपत्तौ परे नवात्मनेपदम् । पूर्व्वं न परस्मैपदन्तिप्तसन्तीति प्रथमः पुमान् ।। ३५८.
सिप्थस्थ मध्यमनरो मिप्वस्मस्चोत्तमः पुमान् । त आतां अन्तात्मने मुख्यः थासाथां ध्वञ्च मध्यमः ।। ३५८.
उत्तम इ वहि महि भूवाद्या धातवः स्मृताः । भुविरेधिः पचिर्नन्दिर्ध्वंसिः श्रंसिः पदिस्त्वदिः ।। ३५८.
शीङः क्रीड़ो जुहोतिश्च जहातिश्च दधात्यपि । दीव्यतिः स्वपितिर्नहिः सुनोतिर्वसिरेच च ।। ३५८.
तुदिर्मृशतिर्मुञ्चतिः रुधिर्भुजिस्त्यजिस्तनिः । शवादिके विकरणे मनिश्चैव करोत्यपि ।। ३५८.
क्रीड़तिर्वृङो ग्रहिश्चोरिः पा नीरच्चिश्च नायकाः । भुवि स्यात् तिङ् भवति सः भवतस्तौ भवन्ति ते ।। ३५८.
भवसि त्वं युवां भवथो यूयं भवथ चाप्यहं । भवाम्यावां भवावश्च भवामो ह्येधते कुलं ।। ३५८.
एधेते द्वे तथैधन्ते एधसे त्वं हि मेधया । एधेथे च समेधध्वे एधे ह्येधावहे धिया ।। ३५८.
एधामहे हरेर्भक्त्या पचतीत्यादि पूर्व्ववत् । भूयतेऽनुभूयतेऽसौ भावे कर्म्मणि वै यकि ।। ३५८.
वुभूषति सनीत्येवं णिचि बाचवयतीश्वरं । यङि वोभूयते वाद्यं वोभोति स्याच्च यङ्लुकि ।। ३५८.
पुत्रीयति पुत्रकाम्यत्येवं पटपटायते । घटयत्यऽथ सनि णिचि बुभूषयति रूपकं ।। ३५८.
भवेद्भवेताञ्च लिङि भवेयुश्च भवेः परे । भवेतञ्च भवेतैवं भवेयञ्च भवेव च भवेम च ।। ३५८.
एधेत एधेयातामेधेरन् मनसा श्रिया । एधेथाश्च एधेयाथामेधेध्वमेधेय एधेवाहि एधेमहि ।। ३५८.
अस्तु तावद्भवतां लोटि भवन्तु भवताद्भव । भवतं भवत् भवानि भवाव च भवाम् च ।। ३५८.